________________
(१०)
'गयाहरः' पञ्चधा। यथा-गदाधरः १ । गदाहरो गदाचौरः २ । गताधरो विगतौष्ठः ३। गजाखरो हस्तिकोमल: ४। गवा वृषभेन आ समन्तात् चरतीति गवाचरः, ईश्वरो वा ५॥
'पओहर:' पञ्चधा। पयोधरो मेघादिः १। पयोहरो वडवाग्निरगस्तिर्वा २ . पयोभरो जलौधः ३। पयोगृहं समुद्रादिः ४। प्रगोखरं शोभन गोरासभं ५ ॥
'पाययो'ऽष्टधा। यथा --प्राकृत इतरजन: १। प्र(प्रा)गतं वर्य(ा)गमनं २। पातकं अधर्मः ३। पातगः शीघ्रगामी ४ पादगः पदात्यादिः ५। प्रापदः प्रकृष्टज्ञानदः ६। पातजं श्रमः ७। पातयेति क्रिया ८॥
'परयारः' षडर्थो यथा-परदारः परभार्यः कापुरुषः २। परकारः परप्रेरक: २ । परचार: परगतिः ३। परतारः परोद्धारक: ४। परजार: ५। परगारः परनिगरणं ६ ।।
'पहायरः' षोढा। यथा-प्रभाकरो रविः १। प्रभाचरो ज्योतिर्गमनं २। प्रभातरः प्रभातदाता सूर्यादि: ३। प्रभाजरः कान्त्या जीर्ण: ४। प्रभादरः कान्तिभयं ५ । प्रभातरः प्रहारदः ६॥
सरयं सयणं सणयं गयणयरं सहिअ तहय सुव्वत्तं । मयणाही सामलया अट्ठासु इ(वि) पंचहा सद्दो ॥१३॥
'सरया'द्या पञ्चार्थाः। यथा-शरहतुः १। शरदः शरखण्डकः शरप्रदः २। सरदः सदन्तः ३। सरको मद्यं ४। सरयः सवेगः ५।
'सयणः' पञ्चधा । शयनं पर्यादिः १। सजनो जनसहित: २। सदनं गृहं ३ । सकणं कणसहितं सशब्दं वा ४। सगणः ससमूहः ५॥
'सणयः' पञ्चधा। सनयो नयसहितः १। सनगः सपर्वतः सवृक्षो वा २। सनतः ३। स्वनदः स्वशब्द: ४। सनक: पूज्यनरः ५॥
'गयणयरः' पञ्चधा। गगनचरः सूर्यादिः १ । गतनगरो विपुरः २। गदनतरं प्रकृष्टवचः ३। गतनयरो गतन्यायप्रदः ४। गगनकरः आकाशकरः ५।
'सहियः' पञ्चधा। सहितो हितयुक्त: १। सखितः सख्युः २। सखिदः सखिप्रदः ३। स्वहित आत्महितः ४। सखिगो मित्रसहगामी ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org