SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ (१०) 'गयाहरः' पञ्चधा। यथा-गदाधरः १ । गदाहरो गदाचौरः २ । गताधरो विगतौष्ठः ३। गजाखरो हस्तिकोमल: ४। गवा वृषभेन आ समन्तात् चरतीति गवाचरः, ईश्वरो वा ५॥ 'पओहर:' पञ्चधा। पयोधरो मेघादिः १। पयोहरो वडवाग्निरगस्तिर्वा २ . पयोभरो जलौधः ३। पयोगृहं समुद्रादिः ४। प्रगोखरं शोभन गोरासभं ५ ॥ 'पाययो'ऽष्टधा। यथा --प्राकृत इतरजन: १। प्र(प्रा)गतं वर्य(ा)गमनं २। पातकं अधर्मः ३। पातगः शीघ्रगामी ४ पादगः पदात्यादिः ५। प्रापदः प्रकृष्टज्ञानदः ६। पातजं श्रमः ७। पातयेति क्रिया ८॥ 'परयारः' षडर्थो यथा-परदारः परभार्यः कापुरुषः २। परकारः परप्रेरक: २ । परचार: परगतिः ३। परतारः परोद्धारक: ४। परजार: ५। परगारः परनिगरणं ६ ।। 'पहायरः' षोढा। यथा-प्रभाकरो रविः १। प्रभाचरो ज्योतिर्गमनं २। प्रभातरः प्रभातदाता सूर्यादि: ३। प्रभाजरः कान्त्या जीर्ण: ४। प्रभादरः कान्तिभयं ५ । प्रभातरः प्रहारदः ६॥ सरयं सयणं सणयं गयणयरं सहिअ तहय सुव्वत्तं । मयणाही सामलया अट्ठासु इ(वि) पंचहा सद्दो ॥१३॥ 'सरया'द्या पञ्चार्थाः। यथा-शरहतुः १। शरदः शरखण्डकः शरप्रदः २। सरदः सदन्तः ३। सरको मद्यं ४। सरयः सवेगः ५। 'सयणः' पञ्चधा । शयनं पर्यादिः १। सजनो जनसहित: २। सदनं गृहं ३ । सकणं कणसहितं सशब्दं वा ४। सगणः ससमूहः ५॥ 'सणयः' पञ्चधा। सनयो नयसहितः १। सनगः सपर्वतः सवृक्षो वा २। सनतः ३। स्वनदः स्वशब्द: ४। सनक: पूज्यनरः ५॥ 'गयणयरः' पञ्चधा। गगनचरः सूर्यादिः १ । गतनगरो विपुरः २। गदनतरं प्रकृष्टवचः ३। गतनयरो गतन्यायप्रदः ४। गगनकरः आकाशकरः ५। 'सहियः' पञ्चधा। सहितो हितयुक्त: १। सखितः सख्युः २। सखिदः सखिप्रदः ३। स्वहित आत्महितः ४। सखिगो मित्रसहगामी ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229355
Book TitlePrakritshabda Sanskrute Nanartha
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages8
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size301 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy