________________
(७)
"सवह' इति पञ्चधा। यथा-स्वपत स्वापं कुस्त ११ शपथः प्रतिज्ञा २। सपथः समार्गः ३। सवहः सवाहन: ४। स्ववध आत्मवधः ५॥
'अहिमयरः' पञ्चार्थो यथा-अधिमकर: समुद्रः १। अहिमकरः सूर्यः २ । अहिमचरः सर्पः ३। अभिमतरोऽभीष्टदाता ४। अहिमतरोऽत्युष्ण: ५॥
'सहा' इत्ययमपि पञ्चाओं यथा-स्वाभा स्वदीप्ति: १। सभा परिषत् २ । सखा मित्रं ३। स्वधा पितृवधः ४। स्वहा आत्मघातक: ५।। इति पञ्चमगाथार्थः।।
आसासत्ति चउद्धा आयासं मुणह तह य तब्भेयं । पव्वइओ तह य च्चिय भणिओ कुहरत्ति पंचविहो ॥ ८॥
'आसासा' शब्दश्चतुर्धा। यथा-आश्वासः संधारणं १। आशाशं दिशिदिशि २ । आश्वास्यं हयमुखं ३। आशास्यमाशंसनीयं ४॥
'आयास' श्चतुर्धा। यथा-आकाशं खं १। आयासः खेदः २। आयाशो आयभोक्ता ३। आदासं दासपर्यन्तं ४॥
'पव्वइय' श्चतुर्धा। यथा -पार्वतिक: पर्वतनिवासी लोक: १। प्रवजितो व्रती २। पर्व इतः सन्धिगत: ३। पर्वदिनो ग्रन्थिच्छित्रः ४॥
'कुहर' इति पञ्चधा। यथा-कुधरः पर्वताद्यनेकधा १। कुगृहः कुत्सितगृहः २। कुहरो दरी ३। कुभरः पृथ्वीधरः ४। कुखर ईषत्कर्कशरूपः विरूपगर्दभो वा ५। षष्ठगाथापर्यायाः॥
कइलास कव्वफलिहा वास अहोवाह पन्न सउणा य। कीलालायणसहिआ एए अ चउव्विहा हुंति॥
'कइलास' श्चतुर्धा। यथा-कैलाशो गिरिः १। कविलासं कवीनां लसनं २ । कपिलाश: पिङ्गलाशो देशः ३। कपिलासः कपीनां लसनं ४॥
___ 'काव्यं' कवेर्भावः कर्म वा १। ऋव्यमामिषं २। क[इ] व ब्रह्म यथा ३। कव्यं पैत्रं कर्म ४।
'फलिह' श्चतुर्धा। यथा-स्फटिक: १। परिखा खातिका २। परिधः ३ । फलिहो रत्नविशेषः ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org