Book Title: Prakritshabda Sanskrute Nanartha Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ (५) एवं 'सत्तास' इति षोढा। यथा -सत्रासः सभयः १। सप्ताश्वः सूर्यः २। सत्त्वाशो जीवादनः ३। शक्ता श्वो रथ: ४। शप्ताश आक्रुष्टाभिलाष: ५। सत्त्वासः शूरः ६। एते षट्।। इति प्रथमगाथार्थः॥ सयलो अट्टविहाणो सत्तसु भेएसु पयडिओ सवओ। पययत्ति सत्तभेओ पंचसु भेएसु सुइ सद्दो॥ ४॥ 'सयल' इत्ययं संस्कृतेनाष्टधा। यथा-शकलः खण्डः १। सकलं समग्रं २। सदलः सपत्रः सकटको वा ३। सजलं सनीरं ४। सतलं साधारं ५। सचलं सकम्पं ६। सगलः सकण्ठः ७। स्वक्ल आत्मवर्गग्राहक: ८ इत्यष्टौ । 'सवय' इति सप्तधा। यथा -स्वपदं स्वस्थानं १। अवको दाता २। सव्रतः सानुष्ठानः ३। सव्रजः सगोकुलः ४। सवया वृद्धः समानो वा ५। सवचा वाग्मी ६ । सबको बक्युतः ७। एते सप्त ।। 'पयय' इति सप्तधा। यथा-पयोज कमलं १। पयोदो मेघः २। पयोगा नदी ३। पतग: पक्षी ४। पदगः पदातिः ५ । प्रकृतं प्रस्तुतं ६। प्रगतः प्रचलितः ७। एते सप्त। 'सुइ' इति पञ्चधा । यथा - श्रुतिर्वेदाद्यनेकार्थः ११ श्रुतिः प्रवाहः २१ शुचिराषाढाद्यनेकार्थः ३। शुदिः शुक्लपक्षो लोकप्रसिद्धः ४1 शुचिः स्नानं ५। एते । पञ्च॥ 'सुरयण' सद्दो पञ्चसु, छसु भाणिओ अप्पमाणसहो य। तह तब्भेओ अमओ चउसुं अणहत्ति भणियव्वो ॥ ५ ॥ अत्र 'सुरयण ' इति पञ्चधा भवति । यथा-सुरगणो देवसमुदायः १। सुरदनः सुदन्तः २। सुरचनं विशिष्टरचनायुक्तं वस्तु ३ । सुरत्रं पद्मरागादि दोषरहितं ४। सुरजनं शोभनरागः ५। एते पञ्च॥ 'अप्पमाण' इति षोढा । यथा-अप्रमाणोऽमर्यादाद्यनेकार्थः १। अल्पमानः स्वल्पाहंकारः २। आत्ममान आत्मतुल्यः ३| आप्यमानः प्राप्यमानः ४। अर्घ्यमाणो ढौक्यमानः ५। अप्रमाज्ञो महच्छासनः ६। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8