Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ प्रज्ञापना- या: मलय० वृत्तौ. ॥१॥ सोपाङ्गं, तदुक्तार्थप्रतिपादनात् , उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमति-18| १ प्रज्ञापविनेयजनानुग्रहार्थतया सार्थकत्वात् । इदश्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात् शास्त्रं, शास्त्रस्य । नापदं उचादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादि- पोद्भातः त्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ इति” तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकैकं द्विधा-कर्तगतं श्रोतगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात् कारभाव एव, तथाचोक्तम्-“एषा द्वादशाङ्गीन कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति,ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रक रनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परं त्वपवर्गप्राप्तिः, उक्तं च-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ ११॥" तदर्थप्रतिपादकस्याहंतः किं प्रयोजनमिति चेत्, न किञ्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च-तं च कहं वेइजइ ?, अगिलाए धम्म देसणाए उ" इति, श्रोतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परम्परं । १ तच्च कथं वेद्यते !, अग्लान्या धर्मदेशनायैव (०देसणाईहिं (माव० नि०)। dain Education memonal For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 752