Book Title: Patan na Chaitya Sambandhi be Aprakat Krutio Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ १४ अनुसन्धान-५९ अमीचंद (भा. जसीमति?) ऋषभदास अमीचंदनी वंशावळी | अमीचंदनी आ वंशावली | अनुसन्धान-५मां शाहवीरा| सुकृत प्रशस्ति चौपाईने अन्ते मळे छे. शांतिदास सामलासकल अमर लखो सुन्दर | प्रस्तुत बन्ने कृतिनी प्रतोनी झेरोक्ष पाटण हेमचन्द्राचार्य जैन ज्ञानभण्डारना हस्तलिखित सङ्ग्रहमांथी मळी छे. ते आपवा बदल भण्डारना व्यवस्थापकश्रीनो खूबखूब आभार. एँ नमः (१) ॥ श्री बृहच्छ्यामलपार्श्वनाथस्तुत्यष्टकम् ॥ अहँ नमः ॥ श्रीः ॥ श्रीमत्कान्तिकलापमङ्गललसल्लब्ध्यैकलीलाऽऽलयः सेव्यः पार्श्वजिनेश्वरो विजयते सच्छ्यामलाख्यो महान् । हैमैर्हारि-विभूषणैश्च कुसुमैः सम्पूजितः सुन्दरैवृक्षौघैरहमञ्जनाग(गि)रिरयं मन्ये विचित्रोद्भवैः ॥१॥ प्रोद्यद्दीपकमालिकाप्रतिमिदं पार्श्वप्रभोराननं तेजःपुञ्जविराजमानमनघं दृष्ट्वेति शङ्कां दधे । चञ्चच्चञ्चलितं नभोदपटलं नव्यप्रभाभूषितं किं वा काञ्चनभूधरैरभिनवैः कालोदधी(धा)वुद्गतम् ॥२॥ सज्जात्यादिसुमोत्करैर्धवलभैर्गात्रं प्रभोरचितं, शुद्धं सूर्यसुताजलप्रभसमं संलक्ष्यते सज्जनैः । एतत् किं गगनं दिवाऽपि यदहो ! ताराश्रितं भास्वरं, किं वा नूतनपुण्डरीककलितो गम्भीरनीराशयः ॥३॥Page Navigation
1 2 3 4 5 6 7