________________
१४
अनुसन्धान-५९
अमीचंद (भा. जसीमति?)
ऋषभदास
अमीचंदनी वंशावळी
| अमीचंदनी आ वंशावली | अनुसन्धान-५मां शाहवीरा| सुकृत प्रशस्ति चौपाईने अन्ते मळे छे.
शांतिदास
सामलासकल अमर लखो सुन्दर |
प्रस्तुत बन्ने कृतिनी प्रतोनी झेरोक्ष पाटण हेमचन्द्राचार्य जैन ज्ञानभण्डारना हस्तलिखित सङ्ग्रहमांथी मळी छे. ते आपवा बदल भण्डारना व्यवस्थापकश्रीनो खूबखूब आभार.
एँ नमः
(१) ॥ श्री बृहच्छ्यामलपार्श्वनाथस्तुत्यष्टकम् ॥ अहँ नमः
॥ श्रीः ॥ श्रीमत्कान्तिकलापमङ्गललसल्लब्ध्यैकलीलाऽऽलयः सेव्यः पार्श्वजिनेश्वरो विजयते सच्छ्यामलाख्यो महान् । हैमैर्हारि-विभूषणैश्च कुसुमैः सम्पूजितः सुन्दरैवृक्षौघैरहमञ्जनाग(गि)रिरयं मन्ये विचित्रोद्भवैः ॥१॥ प्रोद्यद्दीपकमालिकाप्रतिमिदं पार्श्वप्रभोराननं तेजःपुञ्जविराजमानमनघं दृष्ट्वेति शङ्कां दधे । चञ्चच्चञ्चलितं नभोदपटलं नव्यप्रभाभूषितं किं वा काञ्चनभूधरैरभिनवैः कालोदधी(धा)वुद्गतम् ॥२॥ सज्जात्यादिसुमोत्करैर्धवलभैर्गात्रं प्रभोरचितं, शुद्धं सूर्यसुताजलप्रभसमं संलक्ष्यते सज्जनैः । एतत् किं गगनं दिवाऽपि यदहो ! ताराश्रितं भास्वरं, किं वा नूतनपुण्डरीककलितो गम्भीरनीराशयः ॥३॥