Book Title: Parshwanath Charitra Author(s): Hargovinddas Pt, Bechardas Pt Publisher: Harshchand Bhurabhai View full book textPage 7
________________ ऽगमदुर्गमनवभवगहनगहनम् , प्रमामथ्य पीताम्बस्येव निजपवित्रजीवनजीवासहितसध्यानामन्दमन्दराचलेन दुरवगाहागाधदशमभवार्णवम् , ततः सम्प्राप्तं विमलकेवललक्ष्मीलीलाविलासित्वं लोकोत्तररङ्गरङ्गितोत्तुङ्गचङ्गप्रासादात् समुपभुञ्जानस्य श्रीपार्श्वनाथस्वामिनो गुरुगुरोगुर्वपि भाररहितम् , कुमुदिनीकान्तकान्तमपि गतकलङ्कपकम् , पतङ्गवत् पापपङ्कशोषकमपि शीतलम् , तरङ्गिणीदयितवद् गभीरमपि क्षरितक्षारतम् , मुदिरप्रकरवत् तापापहारकमपि नाऽसितम् , संचञ्चूर्यमाणसद्गुणगणं चारुतरं चरितम् । .. तत्र तत्र च प्रस्तावात् सदुपदेशपदं प्रापितानि सरसावबोधविधायकानि नैकानि कथानकानि, श्रोतृणामुपश्रावितं च चिकित्सारहस्यम् , दर्शितानि च समुद्रमुनिशास्त्रशरीरशुभा-ऽशुभाभिज्ञानानि, समावेशितानि च सर्वाणि सुधास्यन्दीनि वर्णनानि, किमुच्यतेऽधिकम् ?, समासादितमिदं चरितं महाकाव्यगणनागण्यताम् । ____एतच्चरितमुद्रणादिसर्वव्ययदातारो वदान्यवरेण्याः श्रीलश्रीलक्ष्मीचन्द्रश्रेष्ठिनो धन्यवादस्थानम् । एतस्य श्रीपार्श्वनाथचरितस्य पुस्तकत्रयमाप्तमस्माभिस्तदर्थ ते पुस्तकदातारो धन्यवादपात्रम् , तत्र पुस्तकद्वयं गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीणां शुद्धम् । एकं च पंन्यासपदभूषितश्रीवीरविजयमुनिमहाशयानां शुद्धतरम् । तस्मात् पुस्तकत्रयात् संशोधितमिदं सुचरितं श्रवणपथं प्रापय्य पवित्रो भवतु पुरुषगणः, स्वकर्मोत्करमुत्करितुं पारयतात् साधुजनः, तदनुमोदकः स्ताच प्रवरेतरनरगणः, उत्साहयेच्चास्माकमुद्यम ग्राहकमहोदयः, संक्षालयेत् , प्रकटयेच्च यदत्र स्थलं सहज-कृत्रिमदोषपङ्कपकिलमिति ज्ञापयतःहरगोविन्द-बेचरदासौ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 500