Book Title: Paniniyasutra Pathasya Author(s): Siddheshwar Shastri Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir View full book textPage 9
________________ प्रास्ताविकम् धातोराये भागे (पा.) इति चिह्वेन पाठभेदा अपि कोशे समावेशिताः । धातुपाठस्था गणा गणपाठे वर्णानुक्रमेण समावेशिताः। अष्टाध्यायीसनपाटे, ये धातुपाठापठिता धातव उपलभ्यन्ते ते सौत्रधातव इत्युच्यन्ते । तेषां सग्रहो माधवीयायां धातुवृत्तौ दृश्यते । माधवेन तत्र वृत्तिरपि कृता वर्तते । माधवेन संगृहीतेषु सौत्रधातुषु तुधातोः समावेशो नोपलभ्यते । उणादिसूत्रस्थाः सौत्रधातवः उ. इति संक्षेपेण प्रदर्शिताः । तत्रत्याः केचन परबपुस्तके प्राक् प्रदत्ता आसन् । अन्ये बहवः संशोध्य स्थलनिर्देशपुरःसरं नवीना एव संगृहीताः । ततोऽन्ये संशोधनावसरे उपलभ्यमानाः सौत्रधातवः परिशिष्टे द्रष्टव्याः । गणपाठे समुपलभ्यमानान्यन्तर्गणसूत्राणि यथा अस्मिन् ग्रन्थे वर्णानुक्रमे ग पृथक् संगृहीतानि तथैव धातुपाठस्थान्यप्यन्तर्गणसूत्राणि संगहीतुमर्हाणि । तथैव शार्मण्यदेशोद्भवेन केनचन विदुषा धातुपाठं संशोध्य धातुपाठः कोशश्च आङ्ग्ललिप्यां सपादितः । जर्मनभाषायां टिप्पण्यादिकमपि प्रदत्तम् । धातुपाठस्य परिशीलनेच्छुभिस्तदवश्यं द्रष्टव्यम् । (by Bruno Liebich A. D 1920 ) गणपाठः-तत्राधोलिखितानि आदर्शपुस्तकानि । ____त. वि. १ परबोपाढेन तन्वविवेचकनद्रणालये मुद्रापितः । बो. २ बोथलिंग ( Bohtlingk ) महोदयेन संगृहीतः । का ३ काशिकावृत्तिस्थः ।। नि. ४ निर्णयसागरमुद्रितसिद्धान्तकौमुद्यन्तर्गतः । सर्वे गणा वर्णानुक्रमेण सगृहीताः । अष्टाध्यायीक्रमानुसारेण न संगृहीताः । गणस्यादौ प्रत्येकमनुक्रमाङ्कस्तथैव गणेऽपि प्रतिशब्दमनुक्रमाङ्कः प्रदत्तः । अष्टात्यायीस्था अध्यायपादसूत्राङ्का अपि गणनाम्नोऽग्रिमे भागे निर्दिष्टाः । ____ गणपाठशब्दकोशेऽङ्कद्वयम् । प्रथमो गणस्यानुक्रमाङ्ग. द्वितीयो गणस्थस्य शब्दस्य । ये शब्दाः काशिकायां नोपलभ्यन्ते तेषामुपरि *एवं चिह्न प्रदत्तम् । अक्षरवर्णमात्राभेदेन ये शब्दा उपलभ्यन्ते ते तत्रैव अग्रिमे भागे () एवं चिह्नान्तर्गताः कृताः । गणनाम्नि समाविष्टः प्रथमः शब्दोऽष्टाध्यायीशब्दकोगे द्रष्टव्यः । धातुपाठस्था गणा अपि अस्मिन्नेव गणपाठे निर्दिष्टाः । गणस्था धातवो धातुपाठस्थान् धातूनामङ्कान् प्रदर्श्य निर्दिष्टाः।। ... .... बहूनि हग्नदिनितान्यादर्गपुग्नकान्यरनाभिराना नान्यानन् । तथैव श्रीवर्धमानरचितो णमहोदधिरपि प्रत्यक्षीकृत । परं तत्र पाठभेदवैपुल्यं, वैचित्र्यं कालुष्यं चानुभूय गणपाठसंशोधनस्य स्वतन्त्रमेव कार्य मत्वा प्रायेण बोथलिंगपद्धतिरेवानुसृता। वार्तिकस्थगणपाठः-सूत्रनिर्दिष्टादन्येऽपि केचन गणा वार्तिकेषूपलभ्यन्ते तेऽत्र सगृहीताः । तत्रापि गणस्यानक्रमाको गणान्तर्गतशब्दानुक्रमाङ्कश्च प्रदत्तः । अग्रिमे भागे भाष्यस्थं स्थलमपि प्रादायि । वार्तिकस्थगणपाठगव्दकोशश्च पृथग्व्यधायि । अन्येऽपि भाष्यवार्तिकयोरेतादृशाः केचन गणा उपलभ्यन्ते तेषामपि स्थलनिर्देशपुरःसरं वर्णानुक्रमेण संग्रहः, टिप्पण्यां (पृ. ७१३-७१४ ) व्यधायि ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 737