Book Title: Pandav Charitra Mahakavyam Author(s): Devprabhsuri, Shreyansprabhsuri Publisher: Smrutimandir Prakashanam View full book textPage 5
________________ ०.२.० पूर्वसम्पादकस्य भूमिका जैनकविः श्रीदेवप्रभसूरिः कदा समुत्पन्न इति समुपस्थिते विचारे श्रीधरकृताया न्यायकन्दल्या वृत्ति रचितवता राजशेखरेण स्वग्रन्थे लिखिता एते श्लोका दृष्टिपथमागताः श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्वन्द्ये। श्रीमध्यमशाखायां वंशे श्रीस्थूलिभद्रमुनेः ॥१॥ गच्छे हर्षपुरीये श्रीमज्जयसिंहसूरिवरशिष्यः। । षष्ठाश्रमीव्रततपाः षड्विकृतित्यागसाहसिकः ॥२॥ सरा ................................................. तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम्। श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१३।। राजशेखरोऽयं कदासीदिति तु डेक्कनकालेजपुस्तकालये विद्यमानान्यायकन्दलीपुस्तकादेवं ज्ञायते यदयं १४८० शकसंवत्सरात्पूर्वमेवासीदिति यतस्तत्पुस्तकशकाङ्कोऽयं (१४८०=A.D.) स्पष्टमेवोल्लिखितः । अतः शकादस्मात् पूर्वभवत्वं सिद्धमेवास्य पाण्डवचरितविधातुर्देवप्रभस्य । सोऽयं देवप्रभसूरिः कोटिगणमध्यमशाखायां श्रीप्रश्नवाहनवंश्ये हर्षपुरीयगच्छे समासीदिति पाण्डवचरित-स्यैवन्ते समासादितयानया प्रशस्त्या विद्मः श्रीकोटिकाख्यगणभूरिरुहस्य शाखा ज्यपादाचार्यदेव या मध्यमेति विदिता विटपोपमास्याः। श्रीप्रश्नवाहनकले समनोऽभिरामः ख्यातोऽस्ति स्वच्छ इव हर्षपुरीयगच्छः ॥१॥ नाम् तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः-तारकपूज्यपादाचार्यवर्य स्पधिष्णुकीर्तिविभवोऽभयदेवसरिः। प्रणाम शान्तात्मनोऽप्यहह निस्पृहचेतसोऽपि यस्य क्रियाखिलजगज्जयिनी बभूव ॥२॥ बद्धक्रीड इवावतीर्य परमज्योतिविवर्तः क्षितौ तत्पट्टे वरचन्द्रमाः समजनि श्रीहेमसूरिप्रभुः। चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥३॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 862