Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam
View full book text
________________
तत्पट्टांबरचन्द्रमाः मलधारि श्रीहेमचन्द्रसूरिर्यो निजवचनज्योत्स्नां सिद्धराजमपीप्यत्, तत्पदे च मदनमदोच्छेदिविजयसिंहसूरिः, तस्य च पट्टे श्रीचन्द्रसूरिस्तस्य च पट्टे श्रीमुनिचन्द्रः सूरिचन्द्रोऽभवत्, तत्पट्टे देवानन्दसूरिरभवत् यस्यादेशाद् देवप्रभाचार्यः, पाण्डवचरित्रं 'नायाधम्मकहा’-नामषष्ठागम-कलिकाल - सर्वज्ञ श्रीहेमचन्द्रसूरिविरचितत्रिषष्टिशलाका पुरुषचरित्रोपजीवितम् विरचितवान् । अमुना च शैमुषीशेखरेण कतमे संवत्सरे विरचितमिति नोक्तम्, तथापि प्रायो विक्रमार्क १२७० तमाब्दसविधे विरचितं स्यादिति - कल्प्यते, यतोऽनेनैव 'मृगावतीचरित्रम्' विक्रमस्य १२७ तमे विरचितम्—
क
सहृदयानां सुधास्वादनिःस्यन्दिन्यस्मिन् काव्ये अष्टादशसर्गप्रमिते, विविधचित्रकृत संरचनाचमत्कृतिद्युतिद्योतितमनीषिमनोमुकुरेऽष्टाधिकसहस्राऽनवद्यपद्यमणयो भासन्ते,
एक एक F
महाकाव्यं चैतत् यशोभद्रसूरिणा, कवेश्चाऽस्य शिष्यनरचन्द्रसूरिणा संशोधितम् ।
गा
अनुष्टुप्छन्दसा प्रतिसर्गमण्डितमिदं महाकाव्यं प्रतिसर्गमनेकैविविधछन्दोभिवसन्ततिलका-मालिनी-1 नी - शिखरिणी - शार्दूलविक्रीडित-श्लोक - स्रग्धरा-रथोद्धतादिभिरपि विराजते, मुरारिकविप्रणीतेऽनर्घराघवाभिधाने काव्ये 'अनर्घराघवकाव्यादर्शं विवरणविधाताऽयं देवप्रभसूरिर्यद्यपि 'विद्वद्विरेफार्पितमहिम' -महाकाव्यं विहितवान्, तथापि 'कविमागकलानैपुण्यशून्योहमितिप्रतिपेदानो निजनिरहंकारत्वं प्रख्यापति, किंतु कविमार्गनैपुण्यं तु काव्येऽस्मिन् प्रतिसर्गं-रत्नकोटे रश्मिवीचय इव पौनःपुन्येन प्रादुर्भवत्येवातः कति च तानि पद्यरत्नानि निदर्शयेयम् ?, कथासङ्घटना चात्र प्रतिसर्गम्
यथा - 1 सर्गे नाभिनंदन - शान्तिजिन- नेमिनाथ- पार्श्वप्रभु-वर्धमानजिनानां विशिष्टगुणवर्णनेन मङ्गलं कृतम्, यथा-नाभिसमुद्भवो जिनो विश्वत्रयत्राणनिष्णः, शान्तिश्च नखत्विषा दुरन्तदुरितारण्यं दाहयति, नेमिस्तु निजवाग्सुरभ्या मोक्षसुखक्षीरं प्रस्रावयति, पार्श्वनाथश्च मानवर ि पातुमलम्, वर्धमानश्चजिनो मोहान्धतमसध्वंसने हेलीयति, ततः कथाप्रारम्भे पाण्डवानां छि पूर्वभवा: व्यावर्णिता
A 18255

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 862