Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 14
________________ ( ५ ) सम्भवति यथा व्याकरणादि पाणिन्यादेः, स ततोऽप्यधिकतरविज्ञान इति । प्रसिद्ध लोके इति । संशयविचारः अत्र विप्रतिपत्तिवाक्यद्वयात् कथं संशयः प्रत्यक्षातिरिक्तप्रमाणानां निश्चयमात्रजनकत्वस्वाभाव्यादिति प्रश्ने न्यायमञ्जरीकारः प्राचीनसम्मतरोत्या कोटिद्वयोपस्थापकं विप्रतिपत्तिवाक्यद्वयम्, उपस्थित्या संशयोत्पत्तिरित्येवं मन्यते । गदाधरभट्टाचार्यास्तु पर्वतो वह्निमान् न वेत्यादिविप्रतिपत्तितः साक्षादेव संशयो जायत इति मतान्तरमनुक्रम्य वह्नितदभावविषयकसंशयः वह्निमान् न वेति वाक्यादेव जायते मतुपः सार्थक्यमतेऽपीत्याहुः । आह च दीधितिकारः--आहत्यैव विप्रतिपत्तिवाक्यजन्मानं संशयमाहुरिति । केवलव्यतिरेको केवलव्यतिरेकी नास्ति अर्थापत्तेरेव तत्कार्यकारित्वसम्भवेन वैयर्थ्यादिति वेदान्तपरिभाषा। साध्याभावनिष्ठा हेत्वभावव्याप्तिः कथं साध्यसाधिका स्यात् । अतो हेतुनिष्ठत्वाभावान्न व्यतिरेकव्याप्तिरिति च वदन्ति । भट्टश्च श्लोकवात्तिके व्यतिरेकव्याप्ति साध्यासाधकत्वेन निराकरोति । भट्टजयन्तस्तु इत्थं व्यतिरेकव्याप्ति समर्थयते । न वयं शुष्कमेव केवलव्यतिरेकिणं क्वचित् साध्यविशेषे विशेषणविशेषवत् हेतुमुपगच्छामः । अपि तु अन्वयव्यतिरेकिहेतुरेव क्वचित् केवलव्यतिरेकतामवलम्बित इति ब्रूमः । यत्र केवलपरोक्षस्यात्मनः सिद्धौ यथा ज्ञानादिकमष्टद्रव्यातिरिक्तद्रव्याश्रितम्, अष्टद्रव्यानाश्रितत्वे सति गुणत्वादित्यादौ यत्रातिरिक्तद्रव्याप्रसिद्धिस्तत्र इतरेषां जडत्वेन ज्ञानानाश्रयत्वनिश्चयात् तदतिरिक्तात्माश्रयत्वानुमानम् । वेदान्तिनश्च व्यतिरेकव्याप्ति बाहुल्येनोपयुञ्जते । तथा हि तत्त्वप्रदीपिकायाम् , अनुभूतिः स्वप्रकाशा अनुभूतित्वात्, यन्नैवं तन्नैवं यथा घटः । विवादपदमनिर्वाच्यम्, भ्रमविषयत्वात्, यन्नैवं तन्नैवं यथा आत्मा । अयं चन्द्र इति व्यवहर्तव्यः प्रकृष्टत्वे सति प्रकाशत्वात्, यन्नवं न तदेवं यथा नक्षत्रादि, इत्यादि ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 240