________________
( ५ ) सम्भवति यथा व्याकरणादि पाणिन्यादेः, स ततोऽप्यधिकतरविज्ञान इति । प्रसिद्ध लोके इति ।
संशयविचारः अत्र विप्रतिपत्तिवाक्यद्वयात् कथं संशयः प्रत्यक्षातिरिक्तप्रमाणानां निश्चयमात्रजनकत्वस्वाभाव्यादिति प्रश्ने न्यायमञ्जरीकारः प्राचीनसम्मतरोत्या कोटिद्वयोपस्थापकं विप्रतिपत्तिवाक्यद्वयम्, उपस्थित्या संशयोत्पत्तिरित्येवं मन्यते । गदाधरभट्टाचार्यास्तु पर्वतो वह्निमान् न वेत्यादिविप्रतिपत्तितः साक्षादेव संशयो जायत इति मतान्तरमनुक्रम्य वह्नितदभावविषयकसंशयः वह्निमान् न वेति वाक्यादेव जायते मतुपः सार्थक्यमतेऽपीत्याहुः । आह च दीधितिकारः--आहत्यैव विप्रतिपत्तिवाक्यजन्मानं संशयमाहुरिति ।
केवलव्यतिरेको केवलव्यतिरेकी नास्ति अर्थापत्तेरेव तत्कार्यकारित्वसम्भवेन वैयर्थ्यादिति वेदान्तपरिभाषा। साध्याभावनिष्ठा हेत्वभावव्याप्तिः कथं साध्यसाधिका स्यात् । अतो हेतुनिष्ठत्वाभावान्न व्यतिरेकव्याप्तिरिति च वदन्ति ।
भट्टश्च श्लोकवात्तिके व्यतिरेकव्याप्ति साध्यासाधकत्वेन निराकरोति ।
भट्टजयन्तस्तु इत्थं व्यतिरेकव्याप्ति समर्थयते । न वयं शुष्कमेव केवलव्यतिरेकिणं क्वचित् साध्यविशेषे विशेषणविशेषवत् हेतुमुपगच्छामः । अपि तु अन्वयव्यतिरेकिहेतुरेव क्वचित् केवलव्यतिरेकतामवलम्बित इति ब्रूमः । यत्र केवलपरोक्षस्यात्मनः सिद्धौ यथा ज्ञानादिकमष्टद्रव्यातिरिक्तद्रव्याश्रितम्, अष्टद्रव्यानाश्रितत्वे सति गुणत्वादित्यादौ यत्रातिरिक्तद्रव्याप्रसिद्धिस्तत्र इतरेषां जडत्वेन ज्ञानानाश्रयत्वनिश्चयात् तदतिरिक्तात्माश्रयत्वानुमानम् । वेदान्तिनश्च व्यतिरेकव्याप्ति बाहुल्येनोपयुञ्जते । तथा हि तत्त्वप्रदीपिकायाम् , अनुभूतिः स्वप्रकाशा अनुभूतित्वात्, यन्नैवं तन्नैवं यथा घटः । विवादपदमनिर्वाच्यम्, भ्रमविषयत्वात्, यन्नैवं तन्नैवं यथा आत्मा । अयं चन्द्र इति व्यवहर्तव्यः प्रकृष्टत्वे सति प्रकाशत्वात्, यन्नवं न तदेवं यथा नक्षत्रादि, इत्यादि ।