________________
( ४ ) दृष्टोऽर्थः ? गौरिति कीदृशं ते ज्ञानं ? गौरिति कीदृशोऽर्थः ? गौरिति कीदृशं शब्दं प्रयुक्तवानसि ? गौरिति इति सर्वेषां प्रश्नानामेकरूपसमाधानेन तेषामैक्यभ्रान्तिः । वस्तुतस्तु
गवि सास्नादिमद्रूपा गादिरूपाऽभिधायके ।
निराकारोभयज्ञाने संवित्तिः परमार्थतः ॥ इति । यदि शब्दः स्वरूपेणार्थं प्रत्याययति अक्षशब्दस्यैक्याद् देवनविभीतकाक्षेषु तुल्या प्रतीतिः स्यात्, न च दृश्यते । तस्मादिदमयुक्तमिति ।
अपि च शब्दस्य सिद्धरूपत्वाद् अर्थस्य तत्राध्यासाश्रयणे यजेत दद्यात् जुहुयात् इत्यादौ साध्यार्थानां यागादीनां शब्दोच्चारणकाले असत्त्वान् न किञ्चिदवगम्येत । पर्यायेषु हस्तः करः पाणिः इत्यादिषु शब्दस्वरूपविशेषेष्वध्यासेऽर्यबुद्धिभेदः स्यात् । ।
__ अपि च शब्देऽर्थाध्यासे स्वसामर्थ्यादेव जायमाने शब्दार्थसम्बन्धज्ञानानपेक्षाप्रसङ्गः । अपि च अध्यासो लोके सादृश्यरागाद्यधीनो दृश्यते शब्देषु अर्थाध्यासे तदभावादध्यासानुपपत्तिः । प्रतिबिम्बवर्णनमप्ययुक्तं दूरस्थयोः शब्दार्थयोस्तदसम्भवात् ।
शब्दविवर्तवादः सोऽप्ययुक्तः शुक्तिरजताध्यासे चाकचक्यादिदोषाद् रजतावभासः शब्दे तु न तादृशं सादृश्यादि । अतः शब्दाद्वैतवादोऽप्ययुक्तः ।
अवयवसंख्यायां विप्रतिपत्तिः __कुमारिलभट्टैः "उदाहरणान्तं वा यद्वोदाहरणादिकम्' इत्युक्तेः प्रतिज्ञाहेतूदाहरणानि । अथवा उदाहरणोपनयनिगमनानि इति पक्षद्वयं व्यवयवं परार्थानुमानमुक्तम् । तार्किकैरपि इदं क्वचिदनुस्रियत एव यथा सिद्धान्तलक्षणदीधितौ यदा गोत्वं तदा गौरित्यत्रातिव्याप्तिः, यदा स्पन्दस्तदा द्वयणुकम्, यदा यस्यादृष्टं तदा तदीयं ज्ञानमित्यादावतिव्याप्तिरिति । प्रतिज्ञाहेतू विना उदाहरणं प्रथमत उच्यमानं त्र्यवयवपक्षं सूचयति । वेदान्तेऽपि ब्रह्मसूत्रभाष्ये शास्त्रयोनित्वाधिकरणे यद्यद्विस्तरार्थं शास्त्रं यस्मात् पुरुषविशेषात्