________________
अत्र मीमांसकैरपि परलोकसाधनभूतेषु कर्मसु प्रवृत्तये शरीरादिभिन्नः परलोकगमनसमर्थः कश्चिदात्मा अपेक्षितः । स च न वेदान्तसंवेद्यः, तस्य निर्गुणत्वात् कर्माधिकारोच्छेदापत्तेः । तथा च बादरायणीयं सूत्रम् "उपमर्द चे''ति । ___ नैयायिकसमर्थित आत्मा कर्तृत्वादिधर्मकत्त्वात् पारलौकिकफलककर्मसु प्रवृत्तये आवश्यकः, ताकिकात्मज्ञानस्योपयोगेन तत्रैव क्षीणत्वात् कथं तस्य * मोक्षहेतुता इत्याक्षेपे प्राप्ते जयन्तभट्टः, तदिदमनुपपन्नम्, ततोऽन्यत एव सिद्धत्वात् प्रत्यभिज्ञाप्रत्यक्षेण जैमिनीयः अनुमानेन च तादृशात्मा सिद्धयत्येव; तेनैव कर्मसु प्रवृत्तेरुपपत्तौ आत्मा ज्ञातव्य इति विधिः आत्मज्ञानान्मोक्ष इति गौतमवचनञ्च निरर्थकं स्यात् । अत आत्मज्ञानस्य तार्किकोक्तस्य मोक्षसाधनत्वमेव, न तु कर्मसु प्रवर्तकत्वमिति तस्य अर्थवादसमर्पितापुनरावृत्तिसाधकत्वमेव ।
___ अन्ये तु य आत्मा अपहतपाप्मा विजरो विमृत्युविशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य इति विधिरेव तादृशात्मस्वरूपज्ञानस्य परमपुरुषार्थतामवगमयन्नस्य पूर्वोक्तार्थवादनिरपेक्षतामापादयतीत्याहुः ।
अपि च आधानविधिः अध्ययनविधिश्च न कामप्रयुक्तौ; अपि तु संस्कारविधायकौ । संस्कृताग्नेः संस्कृतस्वाध्यायस्य च कर्मणि अर्थज्ञाने वा उपयोग इष्यते, एवमेव अपहतपाप्मस्वरूपात्मज्ञानविधिस्तथाविधात्मस्वरूपेणावस्थानमपवर्ग इति बोधयति, न तत्र फलाकाङ्क्षा । आत्मैव परोपजनितधर्मरहितोऽपवर्ग इति ततोऽवगमादित्याहुः । ___ अत्राद्वैतवादः श्रीमण्डनमिश्रविरचितब्रह्मसिद्धयनुसारेणोपपाद्य सङ्ग्रहेणैवं खण्ड्यते । अविद्या सती उतासती ? तत्राद्ये मोक्षकालेऽपि मोक्षाभावः । असत्त्वे सर्वव्यवहारानुपपत्तिरिति । अद्वैतिनस्तु व्यवहारोऽपि काल्पनिकोऽविद्यानिवर्तकज्ञानमप्याविद्यकं निवृत्तिरपि काल्पनिकीत्याहुः ।
__वाक्यपदीये हरिणा प्रोक्तः शब्दाद्वैतवादोऽप्यत्र निरस्यते । तदित्थम् । . यदि शब्दादभिन्नोऽर्थः अपरोक्षतया प्रतिभाति, कोऽर्थः अध्यासेन ? कस्त्वया