________________
( ६ )
तस्माच्छास्त्रकारैरनुमतमेव व्यतिरेक्यनुमानम् । व्यतिरेकव्याप्तेः प्रकृतहेतुनिष्ठत्वमेवं व्युत्पादयन्ति, साध्याभावव्यापकाभावप्रतियोगित्वं व्यतिरेकव्याप्तिरित्युक्तौ तस्या उक्तरूपत्वेन यद्वा साध्याभावनिष्ठायास्तस्याः स्वाश्रयव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन प्रकृतहेतुनिष्ठत्वमिति । तस्मात् व्यतिरेक्यनुमानाभ्युपगमे न कश्चिद्दोषः ।
जातिः
,
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः इति सूत्रम् । तत्र प्रत्यवस्थानं. नाम प्रातिकूल्येनावस्थानम् स चाक्षेप एव । जातिपदेन जन्मोच्यते । परप्रयुक्तहेतौ श्रवणमात्रेण जायमानमसदुत्तरं जातिरिति यावत् । असदुत्तरं जातिरिति संक्षिप्तं लक्षणम् । तत्र उत्तरस्यासत्त्वं स्वपरासाधकत्वम् । श्रीवर्धमानोपाध्याया: स्वीये अन्वीक्षानयतत्त्वबोधे स्वासाधकताप्रयोजकरूपवता परासाधकतासाधकमुत्तरं जातिरित्यूचुः । तथाहि जात्युत्तरं येन रूपेण परकीयां स्थापनां व्याहन्ति, तेनैव रूपेण स्वानुमानमपि इति स्वव्याघातकमुत्तरं जाति: । अत एव बौद्धप्रयोगः घटादिप्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवत् इत्यनुमानं जाति:, स्वस्यापि निरालम्बनत्वेन स्वपरव्याघातकत्वात् ।
,
ननु हेत्वाभासानामसाधकतासाधकत्वेन 'हदो वह्निमान् धूमात्' इति न्यायप्रयोज्यमनुमानं बाधनिश्चयेनासाधकं भवति असदुत्तरत्वज्ञानस्य कथमसाधकतासाधकत्वमिति चेत्, न, अस्यापि भ्रमकाले पक्षे साध्यज्ञानजनकत्वात् । न च तत्त्वाज्ञानदशायां पक्षे साध्यभ्रमो जायत इति वाच्यम्, ज्ञानदशायामपि पक्षे साध्यज्ञानाजनकत्वप्रयोजकमेवासाधकताज्ञानं यतः हृदो वह्निमान् जलादित्यादौ विरोधज्ञानस्य तदभावावच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वाद् असाधकताज्ञानमनुमिति प्रतिबध्नाति ।
अत्र च प्रतिदृष्टान्तसमस्योत्तरेण सूचिता अनवस्था । सा च कथं प्रकृतसाध्यसिद्धिं प्रतिबध्नाति इति विवृतमस्मिन् सन्दर्भे श्रीवर्धमानोपाध्यायैः ।
तथाहि, अनवस्थानसजातीयस्य सजातीयान्याङ्गीकारो बाधकस्तर्क इति न वक्तव्यम्, आत्माश्रयेऽतिव्याप्तेः स्वभिन्नेति सजातीयविशेषणे