SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ( ७ ) अन्योन्याश्रयेऽतिव्याप्तेः । किन्तु प्रतिपत्तिप्रयोजकरूपवत्त्वेनापाद्यापादनम् अनवस्था । सा च उत्पत्तौ ज्ञप्तौ च प्रसिद्धा । उत्पत्तौ तावत्, कारणे किं कारणं व्यवस्थापकमिति प्रश्नः । ज्ञप्तौ तु प्रमाणमिति प्रमाणं तत्रापि किं प्रमाणमिति । एवं दृष्टान्तेऽपि को दृष्टान्त इत्यादि । एवं प्रश्नपरम्पराया निर्दोषत्वे क्वापि कथापर्यवसानं न स्यात् । ततश्च फलापर्यंवसानात् कथारम्भानुपपत्तिः । ज्ञप्तौ तु अनिश्चितस्यानिश्चायकत्वात् निश्चयानुपपत्तिः । उत्पत्तौ कारणस्यापि कारणं वाच्यम् । न हि तत् नित्यमाकस्मिकं वा कारणापर्यवसाने वस्तुनो नित्यत्वापत्तेरिति । निग्रहस्थानञ्च कथकोद्देश्यककथाफलप्रयोजककथाहेतुयथार्थज्ञानविरलिङ्गत्वमिति वर्धमानोपाध्यायाः । कथात्वञ्च न नानावक्तृकविचारविषयकवाक्यसमूहत्वम् । यथाश्रुते एकस्यापि वाक्यस्य नानावक्तृकत्वाभावेनासम्भवापत्तेः । वस्तुतस्तु वादिसाधनाभिधान प्रतिवादिदूषणाभिधानान्यतरत्वं तत् । न्यायशास्त्रे वितण्डाछलजातिनिग्रहस्थानानां निरूपणं तत्त्वसंरक्षणाय, वितण्डादिनापि धर्मंविरोधी जेतव्य इति । तदुक्तं महर्षिणा तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवदिति । पराक्रान्तञ्चात्र श्रीजयन्तभट्टेन । वाराणस्याम्, महाशिवरात्रि पर्वणि, वि० सं० २०४० विदुषां वशंवदः सम्पादकः
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy