Book Title: Nitya Mangal aur Gautamswami Ka Ras
Author(s): Dharnendrasagar
Publisher: Mahavir Jain Aradhana Kendra Koba

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ (९) नवमं बृहच्छान्तिस्मरणम् ॥ भो ! भो ! भव्याः ! श्रृणुत वचनं प्रस्तुतं सर्वमेतद, ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः । तेषां शान्तिर्भवतु भवतामहदादिप्रभावादारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥१॥ ___ भो ! भो ! भव्यलोका ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिनां विज्ञाय सौधर्माधिपतिः, सुघोषाघण्टाचालनानन्तरं सकलसुरासुरेन्द्रः सह समागत्य सविनयमहद भट्टारकं गृहोत्वा गत्वा कनकाद्रिशृङगे विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा ततोऽहं कृतानुकारमितिकृत्वा ‘महाजनो येन गतः स पन्थाः' इति भव्यजनैः सह समेत्य स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्घोषयामि, तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरमितिकृत्वा कणं दत्त्वा निशम्यतां निशम्यतां स्वाहा । ___ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदशिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकराः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54