Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ पारसा इत्यादिद्वितीयगाथायां मिथ्यात्वादिष व तत्वादिषु प्रतिस्थान मा १ त्वव्रतसलेखनानामनुक्रमसिद्धिश्चोक्ता, जारिसओ इत्यादिद्वितीयगाथायां मिथ्यात्वादिषु वक्ष्यमाणानि यादृशादीनि नव द्वाराणि उद्दिष्टानि, पश्चात् मिथ्यात्वादिषु प्रतिस्थानं गाथानवकं व्याख्यातं यावत् संलेखनाया भावनाद्वारे सप्तत्रिंशदधिकशततमा गाथा व्याख्याता, अन्त्यगाथायां चोपसंहारो ग्रन्थस्य, एवं तावत सामान्येन ग्रन्थशरीरं । विशेषतस्तु मिथ्यात्वस्य स्वरूपे देवगुरुधर्मेतरस्वरूपं, भेदे आभिग्राहिकादयो भेदाः, उत्पत्तौ जमालेश्चरित्रे क्रियमाणकृतत्वादिचर्चा, गोष्ठामाहिलवृत्ते आयरक्षितानां विद्याध्ययनं राजसन्मानं मातृसंतोषाय दीक्षाध्ययनादि भद्रगुप्तानां निर्यामना कुटुम्बस्य प्रव्राजनं पितुः स्थैर्य घृतपुष्पमित्रादिवर्णनं अनुयोगपार्थक्यं शक्रकृता निगोदपृच्छा मथुरायां गोष्ठामाहिलकृतो नास्तिकपराजयः तत्र तस्य चतुर्मासी दुर्बलिकापुष्पस्थापना गोष्ठामाहिलस्य कर्मबन्धे प्रत्याख्याने च निह्नवत्वं, दोषे त्रिविक्रमकथानके यागीयहिंसादोषाः, गुणे अतीचारे भंगे भावनायां च ज्ञातानि, सम्यक्त्वस्य तूत्पत्तिद्वारे तत्प्राप्तिस्वरूपं विस्तरेण, चिलातिपुत्रदृष्टान्ते वैदिकवादः, प्रभावनायां विष्णुकुमारस्य वृत्तान्ते नमुचिपक्षखण्डने साधुवृत्तेरुत्तमत्वस्थापना । तेषु प्रथमव्रते स्वरूपे २६३ भेदाः, द्वितीये व्रते ये यथा जायते इति तृतीये द्वारे द्वादशवतभङ्गाः, व्रते तुर्ये स्वरूपद्वारे चतुर्विशतिधा कामः अतिचारद्वारे स्वस्त्रीसंतोषवतः परस्त्रीपरिहारवतश्चातीचारविभागः, पञ्चमाणुव्रते च अतीचाराणां पञ्चकत्वमुपलक्षणविधया तेनान्यत्रापि चतुःषडाद्यतिचारसंभवो न विरुद्ध इति निर्णयः, भोगोपभोगमाने यथा जायते इतिद्वारे पञ्चदश कर्मादानानि, अनर्थदण्डविरतौ आर्त्तादीनां स्वरूपं, सामायिके कुत्र कथं कदा कार्य तदिति विचारः, आगमिकमतखंडनाय श्रावकाणामावश्यकविधानस्यावश्यकता साधिता, सामायिके नयविचारः, पौषधातिचारेषु १०२४ स्थण्डिलभेदाः, संलेखनायां निर्यामकभेदाः, भेदे सप्तदश भेदा मरणानां, यथोत्पत्तिद्वारे द्वादशवार्षिकी संलेखना इत्येवं विशिष्टपदार्थविचारामृतसिन्धुसंयुता वृत्तिरेषा महतीति । ___ दृष्टान्तेषु तावत्-मिथ्यात्वस्य उत्पत्तौ जमालेः " गोविन्दवाचकस्य २ सुराष्ट्राश्राद्धस्य गोष्ठामाहिलस्य २५ दोषे त्रिविक्रमस्य २ गुणे इन्द्रनागस्य ३० यतनायां अम्मडशिष्याणां अतिचारे शिवर्षे: १० भावनायां च तामले: " पत्रं पृष्ठं च यावत् दृष्टान्तः Jain Education in For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 710