Book Title: Navpad Prakaranam
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
समालोच्य प्रस्तुतं वनि
#
पुस्तकप्रशस्तौ स्पष्टस्यः तथैव नवतत्वमा
अत्रैवमवधेयं धीधनैः यदुत सत्यप्येषां सिद्धान्तादिपारावारपारगामित्वेऽपि छद्मस्थानामनामोगस्यासंभवो न जात्वितिसमालोच्य प्रस्तुतं वृत्तिपुस्तकं |श्रीमद्भिः ग्रन्थकृद्भिः सिद्धान्तार्णवपारंगमैश्चक्रेश्वरसूभिः। संशोधितं, यथा चात्र शोधकाः श्रीचक्रेश्वरसूरयः तथैव नवतत्वभाष्यवृत्तिपुस्तकेऽपि युगप्रधानाः श्रीदे| वाचार्याः श्रीमदुद्योतनसूरिश्रीसिद्धसूरिभः सहिताः शोधका इति तत्तत्पुस्तकप्रशस्तौ सष्टमेव, तथा च जैनानामादिपरम्परैवैषा यदुत प्रकरणादिकर्तृभिः निर्माय किमपि विपश्चिद्वन्दैः शोधनीयं, तत एव चाप्तागमानां वृत्तिषु स्थाने स्थाने शोधनोल्लेखः, तथा च विदुषः प्रति शोधनायाभ्यर्थनाकृतेः आदित एव शोधनीयं बुधैः पुस्तकमिति सर्वश्रेयस्करः पन्थाः, ये तु तथा विदुषां पार्श्वे शोधनं न विधापयंति वितन्वते चाञ्जलिं वाचकानां शोधनाय ते तु कया पद्धत्या स्वेष्टमीप्संति| तत् त एव जानन्ति ।
किंच-अत्र वृत्तौ २४२-२६० तमपत्रयोः सामायिकविधाने सुदर्शनकथानके च श्रीवसुदेवसूरय उल्लिखिताः, ज्ञायते चातस्तेषामप्यनेकग्रन्थकर्तृकता, परं न क्वापि उपलभ्यन्ते ग्रन्थास्तेषां विद्यमानभांडागारेषु, केवलं तैर्वसुदेवसूरिभिर्विहितं क्षान्तिकुलकमेकमुपलभ्यते, तच्च मुद्रितं अष्टाविंशतिप्रकरदणमये 'पयरणसंदोह' नामकेग्रन्थे, अन्यच्च-वसुदेवसूरीणां कः सत्ताकाल इति प्रश्ने यद्यपि यथावन्नोपलभ्यते ऐतिचं, परं हस्तिकुण्डिकागच्छीयश्रीशान्तिभद्र
रिगुरवः रामवसुनन्दमितेषु विक्रमीयादेषु सत्तावन्त इति श्रीहस्तिकुण्डिकापुरीयरातामहावीरजिनालयप्रशस्तितोऽवगम्यते, प्रशस्तिरियमधुना अजमे-Y रुसत्कसंग्रहस्थानेऽस्ति, यतस्तत्र प्रशस्तौ
विदग्धनृपतिना ९९३ वर्षे श्रीवासुदेवाचार्याय दत्तं तच्चैत्यं ९९६ वर्षे मम्मटेन समर्थितं चेत्युक्तं, तथा पुनरपि तच्छिष्यान् शान्तिभद्रानाश्रित्य । मोद्यत्पद्माकरस्य प्रकटितविकटाशेषभावस्य सूरेः, सूर्यस्येवामृतांशुं स्फुरितशुभरुचिं वासुदेवाभिधस्य । अध्यासीनं पदव्यां यममलविलसज्ज्ञानमालोक्य लोको, लोकालोकावलोकं सकलमचकलत् केवलं संभवीति ॥ ३०।
Jain Education italiati
For Private & Personel Use Only
wall www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 710