Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
(४)
नरपतिजयचर्याअथ स्वरबलप्रशंसामाह । दशैकेनेति । एकोपि स्वरबली राजा दश राजबलानि लीलया अनायासेन जयति । दशभी राजभिः स्वरबलिभिः शतं शत्रूणां जयति एवं शतैः सहस्रं जयति एतावता स्वरबलमेव जये प्रमाणम् ॥ १६ ॥ अथ प्रागुक्तमेव स्वरबलं स्वराबलं च प्रमाणयति। पुष्पैरपीति । पुष्पैरापि कोर्थः पुष्पघातिभिः सहापि हीनस्वरोदयिना भटेन न योद्धव्यम् नं युद्धं कुर्यात् ॥ किं पुनः शस्त्रपाणिना सह एतावता यावत्कालं हीनः स्वराणां समयस्तिष्ठति स्वरोदयवले प्राप्ते स्वनाममात्रादिस्वरबलं प्राप्य शस्त्रकोटिभिः शस्त्रधारिणां कोटिभिः सह योद्धव्यमिति ॥ १७ ॥ अधुना यावत्कर्तव्योद्रकमाह ॥ राज्ञाऽवश्यमेवैषां संग्रहः कर्तव्य इति तदाह ॥ स्वरज्ञ इति ॥ १८ ॥ स्वरचक्राणीति ॥ १९ ॥ यामलेष्विति ॥ २० ॥ मात्रा वर्णों ग्रहो जीवो राशिर्भ पिंडयोगको ॥ द्वादशाब्दोदयं चक्र वर्षायनर्तुमासिकम् ॥ २१॥ पक्षाहर्नाडिकं चक्रं तिथिवारःयोगकम् ॥ तत्कालेंदुफलं काष्ठा स्वरं देहोद्भवं तथा ॥ ॥ २२ ॥ इति स्वरचक्राणि ॥ पूर्वमुक्तेषु शास्त्रेषु मया ज्ञातानि यानि च॥चतुराशीतिचक्राणि तेषां नामानि वच्म्यहम् ॥ २३॥ एकाशीतिपदं चक्रं शतपत्रं नवांशकम् ॥ छत्रं सिंहासनं चक्र कुम पंचविधं त्विदम् ॥ २४ ॥ भर्देशं नगरं क्षेत्रं गृहं कूर्म च पंचमम् ॥ पद्मचक्र फणीशाख्यं राहुकालानलं मतम् ॥ २५ ॥
मात्रावर्णेति ॥ २१ ॥ २२ ॥ इति स्वरोदये चक्रनामानि ॥ पूर्वमुक्तेष्विति॥२३॥ एकाशीतीति ॥ २४ ॥ भूर्देशमिति ॥ २५ ॥ सूर्यकालानलं चक्रं चंद्रकालानलं तथा।घोरकालानलं चक्रं गूढकालानलं मतम्॥२६॥शशिसूर्यसमायोगे चक्र कालानलं मतम्॥ संघर्ट सप्तमं ज्ञेयं सप्तकालानलानि च ॥२७॥तिथिर्वारं च नक्षत्रं त्रिधा चैव कुलाकुलम्॥ २८ ॥ कुंभचक्र द्विधा प्रोक्तं राशिनक्षत्रसंभवम् ॥प्रस्तारं चक्रवधं च त्रिधा तुंबुरुमुत्तमम् ॥ भूचरं खेचरं पंथा नाडीचक्रं त्रिधा मतम् ॥ २९॥ कालचक्र फणिद्वंद्वं सूर्याख्यं चंद्रजं तथा॥ कविचक्रं द्विधा प्रोक्तं स्थानस्वाम्यक्षपूर्वकम् ॥ ३०॥
सूर्यकालानलमिति ॥ २६ ॥ शशिसूर्योति ॥ २७ ॥ तिथिवार चेति ॥ २८॥ प्रस्तारमिति ॥ २९ ॥ कालचक्रमिति ॥ ३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 294