SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ (४) नरपतिजयचर्याअथ स्वरबलप्रशंसामाह । दशैकेनेति । एकोपि स्वरबली राजा दश राजबलानि लीलया अनायासेन जयति । दशभी राजभिः स्वरबलिभिः शतं शत्रूणां जयति एवं शतैः सहस्रं जयति एतावता स्वरबलमेव जये प्रमाणम् ॥ १६ ॥ अथ प्रागुक्तमेव स्वरबलं स्वराबलं च प्रमाणयति। पुष्पैरपीति । पुष्पैरापि कोर्थः पुष्पघातिभिः सहापि हीनस्वरोदयिना भटेन न योद्धव्यम् नं युद्धं कुर्यात् ॥ किं पुनः शस्त्रपाणिना सह एतावता यावत्कालं हीनः स्वराणां समयस्तिष्ठति स्वरोदयवले प्राप्ते स्वनाममात्रादिस्वरबलं प्राप्य शस्त्रकोटिभिः शस्त्रधारिणां कोटिभिः सह योद्धव्यमिति ॥ १७ ॥ अधुना यावत्कर्तव्योद्रकमाह ॥ राज्ञाऽवश्यमेवैषां संग्रहः कर्तव्य इति तदाह ॥ स्वरज्ञ इति ॥ १८ ॥ स्वरचक्राणीति ॥ १९ ॥ यामलेष्विति ॥ २० ॥ मात्रा वर्णों ग्रहो जीवो राशिर्भ पिंडयोगको ॥ द्वादशाब्दोदयं चक्र वर्षायनर्तुमासिकम् ॥ २१॥ पक्षाहर्नाडिकं चक्रं तिथिवारःयोगकम् ॥ तत्कालेंदुफलं काष्ठा स्वरं देहोद्भवं तथा ॥ ॥ २२ ॥ इति स्वरचक्राणि ॥ पूर्वमुक्तेषु शास्त्रेषु मया ज्ञातानि यानि च॥चतुराशीतिचक्राणि तेषां नामानि वच्म्यहम् ॥ २३॥ एकाशीतिपदं चक्रं शतपत्रं नवांशकम् ॥ छत्रं सिंहासनं चक्र कुम पंचविधं त्विदम् ॥ २४ ॥ भर्देशं नगरं क्षेत्रं गृहं कूर्म च पंचमम् ॥ पद्मचक्र फणीशाख्यं राहुकालानलं मतम् ॥ २५ ॥ मात्रावर्णेति ॥ २१ ॥ २२ ॥ इति स्वरोदये चक्रनामानि ॥ पूर्वमुक्तेष्विति॥२३॥ एकाशीतीति ॥ २४ ॥ भूर्देशमिति ॥ २५ ॥ सूर्यकालानलं चक्रं चंद्रकालानलं तथा।घोरकालानलं चक्रं गूढकालानलं मतम्॥२६॥शशिसूर्यसमायोगे चक्र कालानलं मतम्॥ संघर्ट सप्तमं ज्ञेयं सप्तकालानलानि च ॥२७॥तिथिर्वारं च नक्षत्रं त्रिधा चैव कुलाकुलम्॥ २८ ॥ कुंभचक्र द्विधा प्रोक्तं राशिनक्षत्रसंभवम् ॥प्रस्तारं चक्रवधं च त्रिधा तुंबुरुमुत्तमम् ॥ भूचरं खेचरं पंथा नाडीचक्रं त्रिधा मतम् ॥ २९॥ कालचक्र फणिद्वंद्वं सूर्याख्यं चंद्रजं तथा॥ कविचक्रं द्विधा प्रोक्तं स्थानस्वाम्यक्षपूर्वकम् ॥ ३०॥ सूर्यकालानलमिति ॥ २६ ॥ शशिसूर्योति ॥ २७ ॥ तिथिवार चेति ॥ २८॥ प्रस्तारमिति ॥ २९ ॥ कालचक्रमिति ॥ ३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy