________________
जयलक्ष्मीटीकासमेता। अथ स्वरसामर्थ्यप्रधानतामाह पत्त्यश्वेति । स्वरोदयी स्वरशास्त्रं सम्यक् जानातीति स्वरोदयी स्वरज्ञो ज्योतिषिकस्तेन हीनो रहितः पत्त्यश्वगजरथवाहिनीदिग्वजयशीलोपि राजा तथापि भंगमायाति संग्रामात्पलायते किं पुनः स्वल्पसैनिकः ॥११॥ अथ स्वरबलसहितराज्ञः सामर्थ्यमाह ॥ तावत्तरंति ते वीरा इति ॥ ते वीराः भटाः स्वरज्ञयुक्ताः स्वरबलाढया आहवसागर संग्रामसमुद्रं तावदेव दो| तरंति संग्रामपारं गच्छंति यावत्कालम् अविघ्नजयप्रापकं स्वरवलं तिष्ठति । तावद्वाहुभ्यां ब्रह्मविष्णुरुद्रदुर्गागणेशनिवृत्तिप्रवृत्तिशक्तिशांतिशक्त्यातीत इच्छामोहद्रोहमदमात्सर्यशब्दरूपरसस्पर्शगंधायधिष्ठितत्वादेवमेव शत्रूञ्जयति किं पुनः खड्गादिशस्त्रसहितः तावदित्याकांक्षयान्यदाह । यावदिति । यावत्ते भटाः । स्वरास्ते वडवानले चक्रे नो पतंति । स्वराणामस्ते स्वरास्तसंस्थे वडवानलः वडवाश्विनी तन्मुखे योऽनलः अग्निः स वडवानलस्तस्य चक्रे समूहे न पतंति स्वराः स्वनाममात्रादयः मात्रा वर्णों ग्रहो जीवादयोऽष्टौ स्वरा अस्तमिताः स एव संग्रामसागरस्तस्मिन् संग्रामसागरे वडवानलास्तचक्रे वडवानलचक्रवत् भूमौ न पतति तावदेव स्वरबलसहितं संग्रामपारं गच्छंति यदा पुनः संग्रामं कुर्वन्नस्तस्वरसमयं प्राप्ताः भटाः संग्रामसागरे विलयं यांति, यथा स्वरबलेनाढयाः पुरुषाः बाहुभ्यामेव समुद्रपारं गंतुकामास्तावन्मानं समुद्रं तरंति । यावत् स्थाने समुद्रे वडवानलभ्रमिर्विद्यते तत्र चेत्पतति तदा च तत्रैवं विलयं यांतीति प्रसिद्धिः एतावता उदितस्वरा जयकारणमेव मुख्यं तेनावश्यमेव विजंयार्थिभिः स्वरोदयज्ञाः ग्राह्याः स्वरोदयशास्त्रं पठितव्यमिति ॥ १२ ॥ अथ स्वरज्ञं विना यथा जयो भवति तथाह । कथंचिदिति सुगमम् ॥ १३ ॥ अन्यत्स्वरहीननृपं प्रमाणयति । यस्यैकोपीति । यस्य नृपस्य राज्ये स्वरज्ञो नास्ति तस्य राज्यं रंभा कदली तस्याः स्तंभोपमं भाति तद्राज्यं शत्रुभिः सुखेनाभिभूयते ॥ १४ ॥ अथ पुनः स्वरज्ञमेव प्रशंसति । स्वरशास्त्रे सदाभ्यासीति ॥ सुगमम् ॥ १५ ॥ दशैकेन शतं तैश्च सहस्रं शतसंख्यया ॥ स्वरोदयबलो राजा दशघ्नं हंति लीलया ॥१६॥ पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदयी ॥ स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः ॥१७॥स्वरज्ञः शकुनज्ञश्च दैवज्ञो मंत्रपारगः॥ केरलीवित्तथा राज्ञां कीर्तितं रत्नपंचकम् ॥ १८ ॥ स्वरचक्राणि चक्राणि भूबलानि बलानि च॥ ज्योतिष शकुनं चैव षडंगानि वदाम्यहम् ॥ १९ ॥ यामलेष च सर्वेष यान्युक्तानि स्वरोदये । विंशतिः स्वरचक्राणि वक्ष्येहं तानि चाधुना ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com