________________
जयलक्ष्मीटीकासमेता। खलकाख्यं द्विधा चैव कृत्तिकास्थानभादिकम् ॥ कोटचक्राष्टकं प्रोक्तं चतुरस्रादिभेदतः॥ ३१ ॥ गजमश्वं रथं व्यूहं कुंतं खङ्गं छारें धनुः ॥ सौरि सेवानरं डिंभं पक्षिवर्गापवर्षणम् ॥ ३२ ॥ सप्तरेखोद्भवं चक्रं पंचरेखेंदु भास्करम् ॥ त्रिविधं मातृकाचक्र विज्ञेयं श्येनतोरणे ॥ ३३ ॥ अहिलांगलबीजोतिवृष्टयाख्यं सप्तनाडिकम् ॥ चक्र सांवत्सरं स्थानचक्रं शृंगोन्नतिस्तथा ॥ ॥३४॥ एतानि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत् ॥ जयेदिह न संदेहः शक्रतुल्येऽपि वैरिणि ॥३५॥ इति चक्रनामानि ॥
खलकाख्यमिति ॥ ३१ ॥ गजमश्वमिति वीरचक्रं च दृष्टिकमित्यपि पाठः ॥ ॥ ३२ ॥ सप्तरेखोद्भवमिति ॥ ३३ ॥ अहिलांगलेति ॥ ३४ ॥ एतानीति ॥ ३५ ॥ इति चक्रनामानि ॥ अथातः संप्रवक्ष्यामि भूबलान्यभिधानतः ॥ कपिद्वंद्वे तथा दुर्गे चातुरंगे महाहवे ॥ ३६ ॥ स्वरोदयैश्च चक्रैश्च शत्रर्यत्र समोऽधिकः ॥ तत्र युद्ध बलं देयं भूबलर्विजयार्थिनाम् ॥३७॥ तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले ॥ चतुराशीतिसंख्यानां यहलेन जयी रणे ॥३८॥ उड्री जालंधरी पूर्णा कामा कौल्लेकवीरिका ॥ शिलींध्री च महामारी क्षेत्रपाली च वंशजा ॥ ३९ ॥ भद्रकाली नली काली कालरेखा निरामया ॥ जय लक्ष्मीर्महालक्ष्मीर्जयाविजयभैरवी ॥४०॥
अथेति ॥ स्पष्टम् ॥ ३६ ॥ अथ भूबलानां प्रशंसामाह । स्वरोदयश्चेति । नामजैमात्रायष्टभिः स्वरैर्दादशाब्दादिकालजैः स्वस्वरैः शत्रुर्याद समस्तुल्योऽधिको वा भवति तत्र जयार्थिनां राज्ञां भूवलैबलं देयम् । स्वरबलतुल्येन शत्रुणा सह जयपराजयौ तुल्यावेव । स्वतः आत्मनः स्वरबलैरधिको यदि शत्रुस्तदा शत्रोरेव जयः। अत्र युद्धे यस्य राज्ञः शूरस्य जयार्थिता भवति । कथमसौ मया जेतव्य इति स्वरज्ञं पृच्छति । तत्र स्वरतो भूबलानि तस्मै दत्त्वा युद्धाय तं सज्जीकुर्यात् । जयजयेति ॥ ॥ ३७॥ तेषां भूबलानां नामान्याह ॥ तेषामिति ॥ ३८ ॥ उडीति ॥ ३९ ॥ भद्रकालीति ॥ ४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com