________________
(६)
नरपतिजयचयांबाला योगेश्वरी चंडी माया भुंभुककर्तरी ॥ शार्दूली सिंहिली तन्वी महामाया महेश्वरी ॥ ४१ ॥ देवकोटिः शिवा शक्तिधूम्रा मालावराटिका ॥ त्रिमुण्डा वसरी धD मृता घृष्टा क्षयाक्षया ॥४२॥ दुर्मती प्रवरा गौरी काली नारहरी बला ॥ खेचरी भचरी गुह्या द्वादशी वृष्टिकवला ॥४३॥त्रैलोक्यविजया सौरी कराली वडवापरा ॥ रौद्री च शिशुमातंगी चाभेद्यादहनी जिता ॥४४॥ बहुला वर्गभूमिश्च कपाली चानिलानला ॥ चंद्रार्कबिंबभूमिश्च ग्रहराशिविलग्नगा ॥४५॥
बाला योगेश्वरीति ॥ ४१ ॥ देवकोटीरीत ॥ ४२ ॥ दुर्मतीति ॥ ४३ ॥ त्रैलोक्येति ॥ ४४ ॥ बहुलेति ॥ ४५ ॥ राहुकालानली भमिः स्वरभूमिर्द्विधा मता ॥ रुद्रस्त्रिमासिकश्चैव राहुश्चाष्टविधस्तथा ॥४६॥ चंद्रः सप्तविधः सूर्यश्चतुर्धा योगिनी त्रिधा ॥ कालचक्रं त्रिभेदं च तिथिनक्षत्रवारजम् ॥४७॥ अमनि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे ॥ अरयस्तस्य नश्यति मेघा वातहता यथा ॥४८॥ ॥इति भूबलानि ॥ शत्रोः समाधिके नाम्नि स्वरैश्चकैश्च भूवलैः ॥ स्थानसैन्याधिके शत्रौ बलविज्ञानसंयुते ॥४९॥ अभंगे चाप्यभेदे च दुःसाध्ये दुर्जयेरिपौ ॥ जयोपायमहं वक्ष्ये मंत्रयंत्रादिकं बलम् ॥ ५० ॥
राहुकालेति ॥ ४६ ॥ चंद्रः सप्तविधेति ॥ ४७ ॥ अमूनि भूबलानीति स्पष्टार्थः।। ॥४८॥ इति भूबलानि ॥ शत्रोः समाधिकेति ॥ ४९ ॥ अभंगे इति ॥ यथा शत्रुः सुजयो भवति तथा मंत्रयंत्रादिकैवलर्जयोपायं वक्ष्ये ॥ ५० ॥ रणाभिषेचनं दीक्षां रणार्चा रणकंकणम्॥ वीरपटं रणे पट्टे जयपदृस्य बंधनम् ॥५१॥ मेखलाकवचन्यासंमुद्रारक्षा च कंचुकम् ॥ औषधं तिलकं तज्जा घुटिकाश्च कपर्दिका ॥ ५२ ॥ योगे घटितशस्त्राणि शस्त्ररक्षाप्यमोटनम् ॥ शस्त्रलेपाश्च विविधा बाणानां पिच्छबंधनम् ॥ ५३ ॥ त्रासकं काहला ढक्का मुरजं भस्मसाध
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com