Book Title: Namami Nityam Guru Dharmsurim
Author(s): Akshayratnavijay
Publisher: Akshayratnavijay

Previous | Next

Page 14
________________ १९८० तमे गुरुवरैः स्वजननी 'साध्वी श्रीकुशल श्रीजी' इति रूपेण प्रव्राजिता । नैतावद्, वाचनाशास्त्राभ्यासेत्यादिभिस्तत्संयमजीवनं साधनामण्डितमपि कृतम् । एवं सा श्रामण्ये कुशलाऽपि कृता । मातृश्रमण्याः कायेऽन्तिमवर्षेषु 'पक्षाघात' इति व्याधिरापतितवान् । तदानीं गुरुवरा तस्याः स्वोपकारिण्याः समाधिप्रदानाय निरन्तरं वर्षत्रयीं यावत् पादलिप्तपुरे चतुर्मासानकुर्वन् । नित्यशश्चाऽऽराधनाप्रेरकस्तोत्राणि शास्त्रवचनानि श्रावयित्वा तस्याः समाधिं प्रापयन् । वैयावृत्त्ये च तत्सहवर्तिश्रमणीवृन्दस्य प्रोत्साहनं दत्तवन्तः । संस्कृतसूक्त्यां सत्यं प्रोच्चरितम्- 'जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी' इति जन्मदात्र्या मातुर्जन्मस्थानस्य च महतामुपकाराणां यथार्थज्ञाता हृदयेनाङ्गीकर्ता जनः कदाऽपि तयोरुपकारविस्मरणं न कुर्यात् । लब्धाऽवसरः सोऽन्तःकरण ऋणशोधनभावमपि धत्ते । गुरुवरा अपि उक्तलक्षणा आसन् । गुरुवराणां जीवनं दृष्ट्वा नूनं प्रतिभाति, जाने तेषां जीवनं 'जगद्माता गुरुमाता जन्मदात्री माता' इति मातृत्रय्याः समर्पितमासीत् । 4).. wagen

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 215