________________
१९८० तमे गुरुवरैः स्वजननी 'साध्वी श्रीकुशल श्रीजी' इति रूपेण प्रव्राजिता । नैतावद्, वाचनाशास्त्राभ्यासेत्यादिभिस्तत्संयमजीवनं साधनामण्डितमपि कृतम् । एवं सा श्रामण्ये कुशलाऽपि कृता । मातृश्रमण्याः कायेऽन्तिमवर्षेषु 'पक्षाघात' इति व्याधिरापतितवान् । तदानीं गुरुवरा तस्याः स्वोपकारिण्याः समाधिप्रदानाय निरन्तरं वर्षत्रयीं यावत् पादलिप्तपुरे चतुर्मासानकुर्वन् । नित्यशश्चाऽऽराधनाप्रेरकस्तोत्राणि शास्त्रवचनानि श्रावयित्वा तस्याः समाधिं प्रापयन् । वैयावृत्त्ये च तत्सहवर्तिश्रमणीवृन्दस्य प्रोत्साहनं दत्तवन्तः ।
संस्कृतसूक्त्यां सत्यं प्रोच्चरितम्- 'जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी' इति जन्मदात्र्या मातुर्जन्मस्थानस्य च महतामुपकाराणां यथार्थज्ञाता हृदयेनाङ्गीकर्ता जनः कदाऽपि तयोरुपकारविस्मरणं न कुर्यात् । लब्धाऽवसरः सोऽन्तःकरण ऋणशोधनभावमपि धत्ते । गुरुवरा अपि उक्तलक्षणा आसन् । गुरुवराणां जीवनं दृष्ट्वा नूनं प्रतिभाति, जाने तेषां जीवनं 'जगद्माता गुरुमाता जन्मदात्री माता' इति मातृत्रय्याः समर्पितमासीत् ।
4)..
wagen