Book Title: Nagdutta Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 5
________________ A नागदत्त चरित्रं RAA // 3 // 3 नागदत्तस्तत्र गत्वा गर्तामध्याद्यानपात्राकर्षणाय तान् भारंडपक्षिणा उड्डापयामास. तत्क्षणमेव तत्पक्षो स्पन्नेन प्रचण्डवायुना सकलमपि जलधिजलमुल्ललितं. द्रुतमेवोच्छलद्भिदधिजलोमिभिरुत्पाट्य तद्यानपात्रं | गर्तातो बहिराकृष्टं, ततः क्रमेणानुकूलवायुना प्रेरितं तत्प्रवहणं जनेप्सितस्थाने संप्राप्तं. अथ स नागद- | तस्तत्र शैले स्थितः क्षुत्पिपासया पीडितस्ततो निर्गमनोपायं चिंतयतिस्म, यद्यहं क्षुत्पीडयाऽत्रैव मरिष्यामि, तदार्तध्यानतो मे दुर्गतिभविष्यति, तदधुनैव परमेष्टिनमस्कारध्यानपरा जलधिजले पतित्वात्मघाते करोमि. इति विचित्य स धर्मध्यानपरो नमस्कारान् ध्यायन् झंपां दत्वा जलधौ निपतित एकस्य कस्यचिन्मत्स्यस्य मुखे प्रविष्टः इतोऽसौ मत्स्योऽपि तरन् क्रमेण जलधितटे प्राप्तः. ततो यावत्तेन मत्स्येन निजं | मुखं तत्र विकासितं. तावत् स नागदत्तोऽप्यवसरं लब्ध्वा द्रुतं तन्मुखादुच्छल्य बहिनिस्ससार. ततः क-3 स्मिश्चिजलाशये गत्वा जलं पीत्वा स्वस्थीभूय स वनफलद्याहारं चकार. एवं फलाहारादिभिः स्वनिर्वाह कुर्वन ग्रामादग्रामं परिभ्रमन् स क्रमेण निजनगरे समायातः, ततस्तेन तत्र तस्य धनदत्तश्रेष्ठिनः पावे | पूर्वप्रतिपन्नंदीनारशतं याचितं. परं स धृष्टो लोभाभिभूतः श्रेष्ठीतं न किंचिदप्यर्पयतिस्म, प्रत्युत कथयामास -% CCHOOLCANCxtK4 * 4- 5Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12