Page #1
--------------------------------------------------------------------------
________________ PRESISTERIESBETERaaves // नागदत्तचरित्रं // // श्रीजिनाय नमः // DOSED ( कर्ता-शुभशीलगणि) (द्वितीयावृत्तिः) छपावीप्रसिद्ध करनार पण्डित हीरालाल हंसराज-जामनगर. संवत् 1991 -(*)किंमत 0-10-0 ESSESED सने 1935 DEEEEEEEEDIESISEDIESED
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ नागदत्त चरित्रं // 1 // ॥श्रीजिनाय नमः॥ ' || चारित्रविजयगुरुभ्यो नमः // // अथ श्रीनागदत्तचरित्रं प्रारभ्यते !! ( कर्ता-श्रीशुभशीलगणी) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) ___ अदत्तं यो न गृह्णाति / परस्य दुःखितोऽपि सन् // नागदत्त इवाप्नोति / स मुक्तिकमलां क्रमात् | // 1 // वाराणस्यं नगर्या जितशत्रुनामा नृपो राज्यं करोतिस्म. तत्र चैको दत्ताख्यः श्रेष्ठी न्यवसत्. तस्य | च धनश्रीरित्यभिधा प्रियासीत. जिनधर्म सम्यगादरेण पालयतोस्ययोः क्रमादेकः पुत्रोऽभूत. मातापितृभ्यां तस्य जन्मोत्सवं विधाय नागदत्त इति नाम विहितं. क्रमेण बाल्यभावमुल्लंघ्य लेखशालायां प्रेषितोऽसौ नागकुमारः सकलकलाभ्यासं चकार, धर्मशालायां गतश्च मुनीनां पाश्वे धर्मशास्त्रज्ञानमपि संपादयामास. अथैकदा पितरि पंचत्वं प्राप्ते स नागदत्तो द्रव्योपार्जनार्थमेकं यानपात्रमारुह्य भूरिभिर्जनेयुक्तः RECTENAMExॐRe%
Page #4
--------------------------------------------------------------------------
________________ C नागदत्त % चरित्रं // 2 // EC % -LoCHOLOGROLOGextCEOS परद्वीपे गंतु जलधिमध्ये प्रयाणमकरोत. इतो जलधिमध्ये गच्छत् तत्प्रवहणमकस्मानीचस्थानस्थितजले गर्तामध्ये निपतितं. ततस्तद्यानपात्रस्य तद्गर्तामध्यावहिनिष्कासनाय नाविकैर्भूरियत्ने कृतेऽपि कथमपि तबहिर्न निस्ससार. व्याकुलीभृताः सर्वेऽपि यानपात्रस्थिता लोकाः शांतिकपोष्टिकादिकार्याणि कुर्वतिस्म. परं तानि सर्वाणि कार्याणि निष्फलानि जातानि. तदा नागदत्तस्तद्यानपात्रस्वामिनं धनदत्तश्रेष्ठिनप्रति प्राह | भो धनदत्त! इत आसन्ने शैले बहवो भारंडपक्षिण उपविष्टा दृश्यन्ते, तेन यदि कोऽपि साहसिकः पुमां- || स्तत्र गत्वा तान् पक्षिणस्तत उड्डापयेत् , तदा तेषां पक्षेभ्यो बहुर्वायुरुत्पत्स्यते, तेन वायुना प्रेरितं चेदं / यानपात्रं नूनमितो गर्तातो बहिनिस्सरिष्यति, एवं नैषां सर्वेषां जनानां प्राणरक्षणं भविष्यति, अन्यथात्रैव यानपात्रमध्ये वयं सर्वेऽपि प्राणरहिता भविष्यामः. तत् श्रुत्वा तेन धनदत्तश्रेष्ठिना प्रोक्तं, भो जनाः | युष्मन्मध्यात किं कोऽप्येवंविधः साहसिको जनो विद्यते? यो नागदत्तोक्तं कायं कुर्यात् . एवं श्रेष्टिना कथितोऽपि कोऽप्येतत, कार्य कर्तुमुत्साहं न करोतिस्म. तदा तेन यानेशेन धनदत्तश्रेष्ठिना प्रोक्तं, यः कोऽ. ऽपि तत्र गत्वा तान् भारंडपक्षिण उड्डापयिष्यति, तस्य नूनमहं दीनारशतं दास्ये. तत् श्रुत्वा स साहसिको %
Page #5
--------------------------------------------------------------------------
________________ A नागदत्त चरित्रं RAA // 3 // 3 नागदत्तस्तत्र गत्वा गर्तामध्याद्यानपात्राकर्षणाय तान् भारंडपक्षिणा उड्डापयामास. तत्क्षणमेव तत्पक्षो स्पन्नेन प्रचण्डवायुना सकलमपि जलधिजलमुल्ललितं. द्रुतमेवोच्छलद्भिदधिजलोमिभिरुत्पाट्य तद्यानपात्रं | गर्तातो बहिराकृष्टं, ततः क्रमेणानुकूलवायुना प्रेरितं तत्प्रवहणं जनेप्सितस्थाने संप्राप्तं. अथ स नागद- | तस्तत्र शैले स्थितः क्षुत्पिपासया पीडितस्ततो निर्गमनोपायं चिंतयतिस्म, यद्यहं क्षुत्पीडयाऽत्रैव मरिष्यामि, तदार्तध्यानतो मे दुर्गतिभविष्यति, तदधुनैव परमेष्टिनमस्कारध्यानपरा जलधिजले पतित्वात्मघाते करोमि. इति विचित्य स धर्मध्यानपरो नमस्कारान् ध्यायन् झंपां दत्वा जलधौ निपतित एकस्य कस्यचिन्मत्स्यस्य मुखे प्रविष्टः इतोऽसौ मत्स्योऽपि तरन् क्रमेण जलधितटे प्राप्तः. ततो यावत्तेन मत्स्येन निजं | मुखं तत्र विकासितं. तावत् स नागदत्तोऽप्यवसरं लब्ध्वा द्रुतं तन्मुखादुच्छल्य बहिनिस्ससार. ततः क-3 स्मिश्चिजलाशये गत्वा जलं पीत्वा स्वस्थीभूय स वनफलद्याहारं चकार. एवं फलाहारादिभिः स्वनिर्वाह कुर्वन ग्रामादग्रामं परिभ्रमन् स क्रमेण निजनगरे समायातः, ततस्तेन तत्र तस्य धनदत्तश्रेष्ठिनः पावे | पूर्वप्रतिपन्नंदीनारशतं याचितं. परं स धृष्टो लोभाभिभूतः श्रेष्ठीतं न किंचिदप्यर्पयतिस्म, प्रत्युत कथयामास -% CCHOOLCANCxtK4 * 4- 5
Page #6
--------------------------------------------------------------------------
________________ नागदत्त मूल चरित्रं // 4 // // 4 // ॐॐॐॐॐॐॐॐRR च, भो त्वं केन दृष्टः? अहं त्वां नोपलक्षयामि, नूनं त्वमलीकमेव जल्पसि. तत् श्रुत्वा मनसि दूनो नागददत्तस्तमवदत् , यदि प्रतिपन्नं दीनारशतं वं मे नार्पयिष्यसि, तदैतवृत्तांत राज्ञे निवेद्य त्वां दंडयिष्यामि. || तत श्रुत्वा तेन धृष्टेन धनदत्तेनोक्तं, यदि तब शक्तिर्भवति, एदा सुखेन स्वं चिंतितं कुरु ? अथ धर्मध्या- 81 नपरायणः स नागदत्तः परधनपराङ्मुखः कस्यापि पतितं स्खलितं वा धनं न गृह्णाति. तेन जनमध्ये तस्य बह्वी प्रशंसा जाता. इतस्तत्रैव नगरे प्रियमित्राख्य एकः सार्थपतिर्वसतिस्म, तस्यातीवरूपवती | शीलादिगुणगणालंकृता नागसुरित्यभिधाना तनया वर्तते. क्रमाद्यौवनं प्राप्ता सर्वकलाकुशलीभूता सानागदत्तकोतिं निशम्य तमेव परिणयनार्थमुत्कंठिता बभूव. अथ तत्रैव नगरे वसुदेवाख्यो नगराधिपतेरक्षको वसतिस्म, परं सोऽतोवधृष्टः कूटकार्यतत्परत्पौराणामप्रीतिपात्रं बभूव. तेन वसुदेवेन तस्या नागव- 3 सुकन्याया रूपं विलोक्य मोहितेन परिणयनार्थ तत्पित्रोर्याचनं कृतं, परं नागदत्तोपरि निजपुत्रप्रेमविज्ञाय प्रियमित्रसार्थपतिना तस्मै निजकन्या न दत्ता. ततः शुभदिवसे सा नागवसुकन्या गाढप्रेमपुरस्सरं नागदत्तं परिणीता. एनं वृत्तांतं विज्ञायातीवमत्सराभिभूतः स वसुदेव आरक्षकस्तं नागदत्तं क्वा Saxॐ%ॐॐॐॐ
Page #7
--------------------------------------------------------------------------
________________ नागदत्त मूल 13 प्यनर्थे पातयितुं सर्वदा छलं विलोकयामास. अथेकदा तस्य नगरस्याधिपतिर्हयवाहनक्रीडाथै नगराहः || 4 हिरुद्याने जगाम. तत्र क्रीडां कृत्वा पश्चाद् व्यावर्तमानस्य तस्य नृपतेः कर्णतोऽनाभोगात् कुंडलमेकं भू- चरित्रं मंडले निपतितं. इतोऽदत्तादानपरिग्रहप्रत्याख्यानव्रतधारी स नागदत्तस्तस्मिन् मागे गच्छन् तं कुंडलं // 5 // वीक्ष्य तं मागं विमुच्य मार्गातरेण गत्वाष्टमीदिने वनमध्ये कायात्सर्गध्यानेन स्थितः. इतः कुंडलगवे. षणार्थ निःसृतः स वसुदेवतलारक्षस्तत्र मागें पतितं तं कुण्डलं दृष्ट्वा गृहीत्वा च विचारयामास, अहा! अद्य ते मम वैरिणं नागदत्तं कष्टे निपातयितुं ममोचीनोऽवसरो लब्धोऽस्ति. इति विचार्य स दुष्टस्तलारक्षस्तं कुण्डलं वस्त्रमध्ये वेष्टयित्वा, यत्र स नामदत्तः कायोत्सर्गध्याने लीनःस्थितोऽस्ति, तत्र गत्वा तस्य पादाग्रे मुमोच. ततः स. दुष्टस्तेन मार्गेण राजानं हयवाहनार्थ निनाय. तत्र कायात्सर्गध्यानस्थितस्य तस्य नागदत्तस्य पादाय पतितं कुण्डलोपेतं तद्वस्त्रमुत्पाध्य. तन्मध्यस्थं तं रत्नकुण्डलं राज्ञे दर्शयित्वा साखलस्तलारक्षः प्राह. स्वामिन् ! यदा राजमार्गेऽहमुपविष्टोऽभवं, तदानेन नागदत्तेन तत्र गच्छता नीचेविनम्य किमपि गृहीतमासीत, अथैतद्विलोकनेन ज्ञायते यत्तेन नूनं तत्र पतितोऽयं भवतां रत्नकुंडलो गृहोतः %ARSHAROHORICHOCKECASCA %%A4%
Page #8
--------------------------------------------------------------------------
________________ ॐ नागदत्त चरित्रं SAMACHAR अथात्र मार्गेऽस्मान् आगच्छतो विलोक्य वस्त्रवेष्टितं च तं कुण्डलमत्र गुप्तीकृत्य स्वयं धूर्तीभूय धर्मध्यानच्छेलनास्मान् प्रतारयितुं मौनपरायणः स्थितोऽस्ति. तलारक्षोक्तं तं वृत्तांतं निशम्य, कुण्डलं चापि तत्रैव लब्ध्वा तत्सव सत्यं मन्यमानो भूपः क्रोधाभिभूतः सन् तं तलारक्षं प्राह, भो तलारक्ष! एवंविधं दंभ कुर्वन् स ईदृशं चौर्यकर्म करोति, तस्य नूनं शृलारोपणमेव क्रियते, अतस्त्वमेनं चौर्यकारिणं नागदत्तं शूलयामारोपयेः, इत्यादिश्य राजा स्वस्थाने ययौ. अथैवंविधं नृपादेशं निशम्य स्ववैरनिर्यातनार्थ लब्धावसरं स्वं मन्यमानः स तलारक्षो दृष्टो विडंबनार्थं तं नागदत्तं स्वरोपरि आरोपयामास. ततस्तदादिष्टा राजसेवकास्तं शृलायामारोपयितुं वध्यभूमौ निन्युः. ततो वध्यवाजित्रेषु वाद्यमानेषु तेर्यावत स नागदत्तः | शूलयामारोपितस्तावत्सा शूला सुवर्गसिंहासनरूपा जाता, तैर्मुक्ताः प्रहाराश्चाप्याभूषणरूपा जाताः. 18 तद् दृष्ट्वाश्चयं प्राप्तास्ते सर्वेऽपि राजपुरुषा भयभीता जाताः, ततः क्रमेण तदाश्चर्य विलोकयितुं बहवो नागरिकास्तत्र समायाताः. क्रमेणाकर्णितेतवृत्तांतो राजापि तत्र संप्राप्तः. तदा नागदत्तपुण्या कृष्टया शासनदेवतया ततोगत्य व्योमस्थितया नृपादीनां सर्वेषां नागरिकाणां समक्षं प्रोक्तं, ॐॐ-% % % %
Page #9
--------------------------------------------------------------------------
________________ नागदत्त चरित्र // 7 // // 7 // | भो लोकाः! अयं नागदत्तो महाभाग्यवान् विद्यते, अयं च महान पुरुषोत्तमोऽस्ति, यतोऽसी प्राणात्ययेऽपि ||3|| परकीयं वस्तु न गृह्णाति. पुगपि धनदत्तश्रेष्ठिनास्यार्पणाय स्वयं प्रतिपन्नं दीनारशतमपि नार्पितमस्ति, ||81 इत्युक्त्वा शासनदेव्या तस्य नागदत्तस्य सर्वोऽपि वृत्तांतो जनानामग्रे कथितः, एवं तेन दुष्टेन बसुदेवतलारक्षेण विहितमेनं सर्वमपि छलं प्रकटोकृत्य सा शासनदेवतादृश्यीभूना. एतं वृत्तांतं निशम्य राजादयः सर्वेऽपि लोका आश्चर्य प्राप्ताः. अथ राजापि क्षमायाचन पूर्वकं तं नागदत्तं सन्मान्य पट्टककुंजरारूढं विधाय || महोत्सवपुरस्सरं स्वगृहे समानीय. बहुद्रव्यदानादिना सन्मानयामास, यतः-धम्मो मंगलमउलं। ओसहमउलं च सबदुक्खाण धम्मो बलं च विउलं / धम्मो ताणं च सरणं च // 1 // धम्मो मंगलमुक्किडं / अहिंसा संजमो तवो // देवावि तं नमसंति / जस्स धम्मे सया मणो // 2 // ततो राजा तं धनदत्तं व्यवहारिणं निजपावें समाहयत. तदा सोऽपि भयेन कंपमानशरीरो नपा समागत्य निजापराधक्षमा याचनपूर्वकं तस्मै नागदत्ताय दीनारशतं समर्पयामास. ततः कुद्धोऽसौ राजा तं दुर्जनं वसुदेवाभिधमारक्षकं स्वेदशानिष्कासयामास. यतः-अधर्माल्लभते जन्तु-दुखरोगादिसंततिं // अल्पायुस्त्वमसन्मानं / SHRSaxॐॐ-% %
Page #10
--------------------------------------------------------------------------
________________ REC नागदत्त चरित्र // 8 // // 8 // AxwA * SHALCOHORGARCANELSA दौर्भाग्यं निःस्वतां पुनः // 1 // ततो नृपादिनागरजनेरतीवसन्मानितोऽसौ नागदत्तो जैनधर्मराधनपरस्तया नोगवसुप्रियया सह भोगनिलासान् भुंक्तस्म. एवं चिर जैनधर्ममाराध्य प्रांते च प्रव्रज्यां गृहीत्वा स तीव्रतपोऽसिना कर्मारीन् विदारयन् प्रांते केवलज्ञानमाप्तवान् . ततोऽसो नागदत्तः केवली चंद्रमा इव भासुरो महीमंडले भूरिभव्यजनकुमुदवनानि निजवचनकिरणैः प्रीतिबोधयन् सर्वकर्मक्षयान्मुक्तिं जगाम. // इति आदत्ताऽग्रहणफलोपदर्शने श्रीनागदत्तकेवलिचरित्रं समाप्तम् // श्रीरस्त // आ ग्रंथ श्रीजामनगनिवासी पण्डित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे श्रीशुभशील. गणीजीए रचेला कथाकोषमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधागे वधारो करीने पोताना श्रीजैनभास्करोदय छापखानामां छापी प्रसिद्ध कयों छे. ॥समाप्तोऽयं ग्रन्थो गुरुश्रीमच्चारित्रविजय सुप्रसादात // % aey
Page #11
--------------------------------------------------------------------------
_
Page #12
--------------------------------------------------------------------------
________________ DEDEEMISSISISTEISSISTRICISTRIES // इति श्रीनागदत्त चरित्रं समाप्तम् // SEEEEEER REEDESIBEESESSISEBEDEED