________________ नागदत्त मूल 13 प्यनर्थे पातयितुं सर्वदा छलं विलोकयामास. अथेकदा तस्य नगरस्याधिपतिर्हयवाहनक्रीडाथै नगराहः || 4 हिरुद्याने जगाम. तत्र क्रीडां कृत्वा पश्चाद् व्यावर्तमानस्य तस्य नृपतेः कर्णतोऽनाभोगात् कुंडलमेकं भू- चरित्रं मंडले निपतितं. इतोऽदत्तादानपरिग्रहप्रत्याख्यानव्रतधारी स नागदत्तस्तस्मिन् मागे गच्छन् तं कुंडलं // 5 // वीक्ष्य तं मागं विमुच्य मार्गातरेण गत्वाष्टमीदिने वनमध्ये कायात्सर्गध्यानेन स्थितः. इतः कुंडलगवे. षणार्थ निःसृतः स वसुदेवतलारक्षस्तत्र मागें पतितं तं कुण्डलं दृष्ट्वा गृहीत्वा च विचारयामास, अहा! अद्य ते मम वैरिणं नागदत्तं कष्टे निपातयितुं ममोचीनोऽवसरो लब्धोऽस्ति. इति विचार्य स दुष्टस्तलारक्षस्तं कुण्डलं वस्त्रमध्ये वेष्टयित्वा, यत्र स नामदत्तः कायोत्सर्गध्याने लीनःस्थितोऽस्ति, तत्र गत्वा तस्य पादाग्रे मुमोच. ततः स. दुष्टस्तेन मार्गेण राजानं हयवाहनार्थ निनाय. तत्र कायात्सर्गध्यानस्थितस्य तस्य नागदत्तस्य पादाय पतितं कुण्डलोपेतं तद्वस्त्रमुत्पाध्य. तन्मध्यस्थं तं रत्नकुण्डलं राज्ञे दर्शयित्वा साखलस्तलारक्षः प्राह. स्वामिन् ! यदा राजमार्गेऽहमुपविष्टोऽभवं, तदानेन नागदत्तेन तत्र गच्छता नीचेविनम्य किमपि गृहीतमासीत, अथैतद्विलोकनेन ज्ञायते यत्तेन नूनं तत्र पतितोऽयं भवतां रत्नकुंडलो गृहोतः %ARSHAROHORICHOCKECASCA %%A4%