________________ ॐ नागदत्त चरित्रं SAMACHAR अथात्र मार्गेऽस्मान् आगच्छतो विलोक्य वस्त्रवेष्टितं च तं कुण्डलमत्र गुप्तीकृत्य स्वयं धूर्तीभूय धर्मध्यानच्छेलनास्मान् प्रतारयितुं मौनपरायणः स्थितोऽस्ति. तलारक्षोक्तं तं वृत्तांतं निशम्य, कुण्डलं चापि तत्रैव लब्ध्वा तत्सव सत्यं मन्यमानो भूपः क्रोधाभिभूतः सन् तं तलारक्षं प्राह, भो तलारक्ष! एवंविधं दंभ कुर्वन् स ईदृशं चौर्यकर्म करोति, तस्य नूनं शृलारोपणमेव क्रियते, अतस्त्वमेनं चौर्यकारिणं नागदत्तं शूलयामारोपयेः, इत्यादिश्य राजा स्वस्थाने ययौ. अथैवंविधं नृपादेशं निशम्य स्ववैरनिर्यातनार्थ लब्धावसरं स्वं मन्यमानः स तलारक्षो दृष्टो विडंबनार्थं तं नागदत्तं स्वरोपरि आरोपयामास. ततस्तदादिष्टा राजसेवकास्तं शृलायामारोपयितुं वध्यभूमौ निन्युः. ततो वध्यवाजित्रेषु वाद्यमानेषु तेर्यावत स नागदत्तः | शूलयामारोपितस्तावत्सा शूला सुवर्गसिंहासनरूपा जाता, तैर्मुक्ताः प्रहाराश्चाप्याभूषणरूपा जाताः. 18 तद् दृष्ट्वाश्चयं प्राप्तास्ते सर्वेऽपि राजपुरुषा भयभीता जाताः, ततः क्रमेण तदाश्चर्य विलोकयितुं बहवो नागरिकास्तत्र समायाताः. क्रमेणाकर्णितेतवृत्तांतो राजापि तत्र संप्राप्तः. तदा नागदत्तपुण्या कृष्टया शासनदेवतया ततोगत्य व्योमस्थितया नृपादीनां सर्वेषां नागरिकाणां समक्षं प्रोक्तं, ॐॐ-% % % %