Book Title: Murtipooja Prativadak Be Laghu Rachano Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ अनुसन्धान-३१ नारकादिनवदण्डकजीवान् विरहय्य पञ्चदशापि दण्डकजीवाः सम्यक्त्वावाप्तिदाढ्यहेतवे प्रतिमापूजनायाऽहर्निशं यतन्ते ॥१२॥ द्रव्यक्षेत्रकालभावभवान् प्रतीत्य कर्मणामुपशमक्षयोपशमादेः "उदयक्खयख(ख)ओवसमोवसमा य जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प ॥" इत्यादिना कर्मवादोपनिषद्वेदिभिः सिद्धान्तितत्वेन प्रतिमाद्रव्यनिबन्धनं दर्शनमोहनीय-चारित्रमोहनीयोपशमक्षयोपशमाद्यपि तत्र तत्र वर्णितं सम्यक्त्वविरत्यवासिशुद्धयादि निर्णाययति । यदाहुरैदंयुगीनेभ्यः सत्त्वेभ्य उपदेशद्वारेण सिद्धसेनगणयः ( देवगुप्ताचार्याः)-"अधुना हि सत्त्वाः प्रायोऽलसा: क्लेशादिभीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्वा द्रव्याद्यपेक्षकर्मोपशमादिलब्धमोहनीयविवरप्रसन्नमनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते ततो दर्शनादिलाभ" इति । केषांचिच्चाधिगतदर्शनानामपि प्रमादिनां प्रतिमादिदर्शने तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं "तत्पूजनं न्याय्य"मिति ।" "अभ्यर्चनादर्हतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥" इति तत्त्वार्थभाष्यविवरणे । अत एव सम्यग्दर्शनस्य विस्तराधिगतये निर्देशस्वामित्वसाधनाधिकरणादिनिरूपणप्रक्रमे स्वामिन उपवर्णनं - कस्य सम्यग्दर्शनमिति । एतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याऽजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा: । उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति । उभयसंयोगस्य विवक्षितत्वात् संयोगविरहिता एते विकल्पा न सन्ति, शेषास्तु जीवस्य जीवस्य १ जीवस्य जीवयोः २ जीवस्य जीवानां ३ जीवस्याऽजीवस्य ४ जीवस्याऽजीवयोः ५ जीवस्याऽजीवानां ६ एते तु सन्तीत्यर्थः । स्वामित्वविवक्षायां मुख्यवृत्त्या तु यद् यत्र समवेतं तत्तस्यैव, व्यवहारेण तु परस्य निमित्तभूतस्यापि तद् व्यपदिश्यते । तत्र निमित्तापेक्षामृते सम्यग्दर्शनपरिणाम आत्मन्येव समवेत इत्यात्मसंयोगेन जीवस्य तदिति स्पष्टमेव । परसंयोगेन तु साधु-प्रतिमादि वस्तु निमित्तीकृत्य श्रद्धानपरिणाम उपजायते इत्येते एक Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12