Book Title: Murtipooja Prativadak Be Laghu Rachano
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ फेब्रुआरी-2005 कैवल्यलक्ष्मीरप्यवापि ॥ तदेवं मूर्तिपूजाया युक्तिबिन्दुर्निदर्शितः । नेमिसूरिप्रसादेन विजयोदयसूरिणा ॥१॥ यदर्जितं मया पुण्यं पूजायुक्तिनिरूपणात् । भवताद् भव्यसन्दोहे तेन पूजाऽऽदरो महान् ।।२।। इति मूर्तिपूजायुक्तिबिन्दुः समाप्त: ॥ आचार्यश्रीविजयोदयसूरिकृता मूर्तिमन्तव्यमीमांसा ॥ अथ श्रीमूर्तिमन्तव्यमीमांसा ॥ प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मूर्तिमन्तव्यमीमांसा कथ्यते भव्यबोधिनी ॥ युक्त्यागमसंसिद्धायामप्यस्यां मूर्तिमन्तव्यमीमांसायामर्वाचीनानामितिहासोपनिषद्वेदिनामाकूतेन तावद् मूर्तिनिषेधविचारोऽनादावपि काले न केनचित् कुत्रचित् कदाचनाऽपि प्रादुष्कृत: । अधुना दरीदृश्यमानसत्ताकोऽपि स न प्रथमं भारते लब्धभूमिः । अपि तु तत्प्रादुर्भावपिता प्रथमपुरुषः क्राइष्टसम्वतः पूर्वं पञ्चदशशतैकसप्ततिवर्षे (१५७१) प्रथमो याहूदीनां पेगम्बरो मोझझ(हसरतमुसा अलेहिसलाम)संज्ञो बभूव । तस्य मूर्तिपूजानिषेधबीजं तु तत्कालीनेतिहासाऽवलोकनत इदभेव सम्भाव्यते । तथाहि-पूर्वं तावदयं हसरतमुसा याहुदिकुले मीसरदेशेऽजायत । केनापि कारणेन मातर- पितराभ्यां मञ्जूषायां संस्थाप्य सा मञ्जूषा नाइलनद्यां प्रक्षिता । तां च तत्कालीन-मिसरनृपतिफीरौनपुत्री लब्धवती । तया च राजकुमार्या [स] पुत्रवत् पालयित्वा वर्धितः । तदा च यहुदिन ईजिप्तेऽवसन्, बलादेव तेभ्य ईजिपश्यना इष्टिकानिष्पादनकर्म कारितवन्तः। एकदा ईदृगेव किञ्चित्कारणमवलम्ब्य ईजिपश्यन-यहुदिनावयुद्ध्येताम् । तत्राऽऽगतेन हजरतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12