Book Title: Murtipooja Prativadak Be Laghu Rachano
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान-३१ स्वयं यहुदित्वाद् यहुदिपक्षमादाय हत्वा च ईजिपश्यनं तत्कलेवरं भूमौ निधीचक्रे। प्रकटीभूतं च क्रमशो हत्यादुष्कृतम् । ततः प्रच्छनवृत्त्या नंष्ट्वा कुत्रचिज्जगाम । ततश्चत्वारिंशता वर्षेभूयो मीसरदेशमाजगाम । तत्र तु यहुदिषु स एव बलात्कार आसीत् । ततो यहुदिनो मोचयित्वा एशियामाइनरप्रदेशमानीतवान् । स च प्रदेशो दुग्धोत्पादकप्रचुरतृणवत्त्वान्मधूत्पादकप्रचुरखजूरादिद्रव्यत्वाच्च दुग्धमधुसरित्पतिरितिख्यातिमानासीत् । अतः स्थितमिदं यहुदिनो गोपा इव पशुचारका आसन् । ते चैतद्देशीयगोपवत् प्रचुरतृणादिमत्प्रदेशे एवाऽस्थुर्न तु तेषां स्थायिग्रामगृहाणि बभूवुः । ततश्च सिद्धमिदं यद् वनचारिणां तेषां मन्दिरमूर्तिभिः सह कुतः सम्बन्धः ? । मूर्त्यर्थं तु स्थितिमत्स्थानं पूजाप्रबन्धश्चोपयुज्यते । तच्च तदानीं यहुदिनामसाम्प्रतमेवाऽऽसीत् । हजरतोऽपि यं तं मारयित्वा नैवाऽत्र (नैकत्र ?) स्थिति लेभे । अतस्तस्याऽपि न मूर्तिसम्बन्धो युज्यते । इदमेव कारणमासाद्य मूर्तिपूजा निषिषेधेति सम्भाव्यते । तेन च बाइबलपूर्वार्ध(ओल्डटेस्टेमेन्ट)प्रथमपुस्तकपञ्चकं प्राणायि । तदनुयायिनो याहूदिनः खुदार्पितानि तानि पुस्तकानीति मन्वते । अस्तु यत्किञ्चित् । तेषु द्वितीयपुस्तकीयविंशतितमप्रकरणस्य चतुर्थो नियमो मूर्तिपूजां निषेधयति । स चाऽयम् - "त्वया त्वदर्थं स्वर्गीयस्य स्थलीयस्य जलीयस्य वा कस्यचिद्वस्तुन आकृतिर्न विधेया ।" इदमेव वचो मूर्तिपूजानिषेधमूलम् । पुस्तकं चैतद् यूरोपीयाः क्रिश्चियना अप्यभ्युपपद्यन्ते । ते चाऽऽङ्ग्ला बाइबलस्य द्वौ भागौ-ओल्डटेस्टेमेन्टसंज्ञं पूर्वार्धं न्युटेस्टेमेन्ट संज्ञं चोत्तरार्धं स्वसिद्धान्ततया स्वीकुर्वन्ति । याहूदिनस्तु पूर्वार्धमेव । एतन्मूर्तिपूजानिषेधवचोमहिम्नाऽरबिनां कुमारिका अपि क्रीडनपाञ्चालिकाजतुषत्रपुषविरहिण्यो बभूवुः । ततः पञ्चदशशत्यां वर्षाणां गतायां क्रिश्चियनपेगम्बर-जीससक्राइस्ट(इसुख्रिस्त)मतं प्रादुर्बभूव । क्राइष्टस्यापि प्रायः हजरतमुसा-सदृश्येव स्थितिरासीत् । बाल्य एव तदीयपितरौ गोपयित्वा मिसरप्रदेशं नीतवन्तौ, तादृश्यां च स्थितौ तस्यापि मूर्तिपूजासम्बन्धो न युज्यते । तदीयदशस्वादेशेषु द्वितीय आदेश:- "त्वं मूर्त्यग्रे कदापि न नंस्यसि" इति मूर्तिनमनं निषेधयति । तदनु षष्ठशतकप्रारम्भे म्लेक्षपेगम्बरनबीमतं प्रचलितम् । तदानीं तत्पूर्वं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12