Page #1
--------------------------------------------------------------------------
________________
मूर्तिपूजा-प्रतिवादक बे लघु रचनाओ ॥ कर्ताः आ. विजय उदयसूरि ॥
___सं. विजयशीलचन्द्रसूरि आ. श्रीविजयोदयसूरि महाराज ए वीसमा शतकना प्रभावक जैनाचार्य श्रीमद् विजयनेमिसूरीश्वरजीना पट्टशिष्य हता. तेमना निर्मल चारित्र जेवू ज तेमर्नु अगाध ज्ञान हतुं. तेमणे अनेक ग्रन्थो रचेला छे, जे महदंशे मुद्रित छे. तेमनी बे लघु रचनाओ हजी अप्रगट रही छे, ते अहीं प्रकट करवामां आवी रही छे.
बन्ने रचनाओनो विषय मूर्तिपूजा छे. वीसमा शतकमां जैन धर्मना मूर्तिपूजक वर्ग अने मूर्तिनिषेधक वर्ग-ए बे वर्गो वच्चे खासा संघर्षो चालता हता. 'मूर्ति न जोईए, अने मूर्तिनी पूजाथी कोई लाभ तो न ज थाय, ऊलटुं, ते अधर्म छे, मोक्षमार्ग विरोधी छे, जैन सिद्धान्तथी विपरीत छे,- आवां प्रतिपादनो उग्रतापूर्वक थतां, अने बाल के मुग्ध जीवो ते वातोमा तणाई पण जतां ज. तेनो प्रतिवाद करवा माटे घणा विद्वानोए घणा ग्रन्थो-पुस्तको-लेखो लख्या छे अने मूर्ति तेमज मूर्तिपूजानी योग्यता शास्त्र, आगम तथा तर्कना आधारे पुरवार करी छे. ते प्रकारनो ज एक प्रयास आ बे कृतिओमां पण थयो छे.
प्रथम रचनानुं नाम छे 'मूर्तिपूजायुक्तिबिन्दु'. आमा आगमो तथा शास्त्रग्रन्थोनां प्रमाणो टांकीने मूर्तिपूजा ए अधर्म-असंयम नहि, पण १२ व्रतोनी आराधनारूप छे, ते पुरवार करती युक्तिओ आपवामां आवी छे. एकंदरे आ रचना धर्मानुष्ठानप्रेमी वर्गने तेमज तर्कप्रेमी वर्गने एम उभय वर्गने रुचिकर बनी रहे तेवी छे.
बीजी रचना छे 'मूर्तिमन्तव्यमीमांसा'. आमां थोडीक इतिहास-- आधारित चर्चा थई छे. मूर्तिपूजानो सर्वप्रथम निषेध क्यारे थयो ? कोणे कर्यो ? तेम करवा पाछळनां कारण कयां ? - आ बधा सवालो विषे प्राथमिक गणी शकाय तेवी चर्चा छे. ते चर्चाने विमर्शात्मक चर्चा कही
Page #2
--------------------------------------------------------------------------
________________
2
अनुसन्धान- ३१
शकाय; ऐतिहासिकता माटे जरा विशेष ऊंडा ऊतरवुं पडे. परन्तु, वीसमा शतकमां उपाश्रयमां बेठा बेठा अने मात्र शास्त्राध्ययनने समर्पित जीवन जीवनारा एक जैन साधु, महेनत - मथामण करीने, बधु ऐतिह्य शोधवा मांडे, आंकडा तथा ते ते ग्रन्थोनां वचनोनो अभ्यास करे, ते वात बहु ज महत्त्वनी अने नोंधपात्र छे.
आमां छेवटे मूर्तिपूजकोनी तथा मूर्तिनिषेधकोनी संख्या दर्शाववामां आवी छे. आ आंकडा आजथी ८० वर्ष अगाउना छे, ओ लक्ष्यमा लईने ज वांचवाना रहे छे. आजना वसती- विस्फोटना तथा धार्मिक मान्यताओना सांकर्यना युगमां आ आंकडाओमां मोटी अफडातफडी थाय ते पूर्णत: संभवित छे.
जर्जरितप्राय अने पेन्सिलथी लखायेल झांखां पत्रो परथी थयेली आ रचनाओनी नकलोमा क्यांय कांई भाषानी के वाक्यरचनानी गरबड जणाय तो ते दरगुजर करवानी विज्ञप्ति छे.
आचार्यश्रीविजयोदयसूरिविरचितो मूर्त्तिपूजायुक्तिबिन्दुः ॥
ऐँ नमः ॥ श्रीजिनाय नमः ॥
प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मूर्तिपूजाविधेयत्वं सोपपत्तिकमुच्यते ॥१॥
न चास्याः परमात्मपूजायाः कस्मिंश्चिदपि व्रतेऽन्तर्भावासम्भवादनुपपनत्वं तदुपादेयताया इति साम्प्रतम् । सम्यक्त्वस्याऽप्येवं व्रताऽनन्तर्भावादनुपादेयतापत्तेः । ननु सम्यक्त्वमूलकान्येव व्रतानि फलप्रदानप्रत्यलानीति तदादावेवोपादेयं, पूजनं तु न तथेति चेत्; मैवं वोचः स्ववधाय कृत्योत्थापनसमम्। यतो गुरुवन्दनव्याख्यान श्रवणादेरपि तथैव त्वदुक्त्या व्रताऽनन्तर्भावादविधेयतापत्तेः । नन्विदं गुरुवन्दनादिकृत्यं सम्यक्त्वशुद्ध्यादिनिबन्धनत्वाद् युक्तिमदेवेति चेत्, तर्त्यस्या अपि परमात्मपूजायाः सम्यक्त्वशुद्धिकृत्त्वं किं
Page #3
--------------------------------------------------------------------------
________________
फेब्रुआरी-2005
काकेन भक्षितम् ? । (तथैवेयमपि परमात्मपूजा(ऽपीति) किं नाङ्गीकरोषि ? ।') न च तस्या न तच्छुद्धिहेतुता, यथावदात्मस्वरूपप्रत्यायकतयाऽ ऽर्द्रकुमारादिवत्तदुपलब्धेः ॥१॥
__ प्रसिद्धमप्यागमे कल्याणकादितीर्थभूदर्शनस्पर्शनसामर्थ्यतः सम्यक्त्वदादापादनम् । यदाह आचाराङ्ग-भावनाऽध्ययननियुक्तिदर्शनभावनायां "निक्खमणनाणनिव्वाणे"त्यादि ॥२॥
वर्णितमपि तत्रभवद्भिस्तत्र तत्र स्थाने सम्यक्त्वशुद्धिहेतुत्वं पूजायाः __"पूयाए कायवहो पडिकुट्ठो सो उ किं तु जिणपूया ।
सम्मत्तसुद्धिहेउत्ति भावणीया उ निरवज्जा ॥" इत्यादिवचोभिः ॥३॥
सम्यक्त्वशुद्धिहेतुत्वादेव द्रव्यस्तवस्य संसारप्रतनुकृत्त्वमुख़ुष्यते "संसारपयणुकरणे दव्वत्थए कूवदिटुंतो" इत्यादौ ॥४॥
यथावस्थितदेवस्वरूपज्ञापकत्वात् प्रतिमाया न्याय्यैव तत्पूजने सम्यक्त्वशुद्धिहेतुता ॥५॥
श्रावकाणां निवासास्पदनिरूपणे यज्जिनभवनालङ्कृतं स्थानमिष्यते तदपि सम्यक्त्वशुद्धिहेतुत्वाङ्गीकारेणैव ॥६॥
प्रश्नव्याकरणाने 'मुनीनामपि यच्चैत्यवैयावृत्त्यं करणीयत्वेनोपदिष्टं तदपि सम्यक्त्वनैर्मल्याधायकत्वेन ॥७॥
सम्यक्त्वलिङ्गत्वेन वर्णितमपि देववैयावृत्त्यं प्रतिमापूजनद्वारैव सिद्धिमुपयाति ॥८॥
सम्यक्त्वविनयभेदेषूपदर्शितं चैत्यभक्तिबहुमानाद्यपि चैत्यपूजनस्तवनकर्तृणामेवोपपद्यते ॥९॥
आर्द्रकुमार-शय्यम्भवसूर्यादीनां प्रतिमादर्शनत एव सम्यक्त्वावाप्तिरुपवर्णिता ॥१०॥
प्रतिमाकारमत्स्यदर्शनादनेकेषां मत्स्यानामपि सम्यक्त्वोत्पत्तिद्वीपसागरप्रज्ञप्त्यादौ श्रूयते ॥११॥ १. मूलप्रतावेव एवं पाठान्तरं दृश्यते । २. अनगाराणामपि ॥
Page #4
--------------------------------------------------------------------------
________________
अनुसन्धान-३१
नारकादिनवदण्डकजीवान् विरहय्य पञ्चदशापि दण्डकजीवाः सम्यक्त्वावाप्तिदाढ्यहेतवे प्रतिमापूजनायाऽहर्निशं यतन्ते ॥१२॥
द्रव्यक्षेत्रकालभावभवान् प्रतीत्य कर्मणामुपशमक्षयोपशमादेः "उदयक्खयख(ख)ओवसमोवसमा य जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं च संपप्प ॥"
इत्यादिना कर्मवादोपनिषद्वेदिभिः सिद्धान्तितत्वेन प्रतिमाद्रव्यनिबन्धनं दर्शनमोहनीय-चारित्रमोहनीयोपशमक्षयोपशमाद्यपि तत्र तत्र वर्णितं सम्यक्त्वविरत्यवासिशुद्धयादि निर्णाययति । यदाहुरैदंयुगीनेभ्यः सत्त्वेभ्य उपदेशद्वारेण सिद्धसेनगणयः ( देवगुप्ताचार्याः)-"अधुना हि सत्त्वाः प्रायोऽलसा: क्लेशादिभीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्वा द्रव्याद्यपेक्षकर्मोपशमादिलब्धमोहनीयविवरप्रसन्नमनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते ततो दर्शनादिलाभ" इति । केषांचिच्चाधिगतदर्शनानामपि प्रमादिनां प्रतिमादिदर्शने तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं "तत्पूजनं न्याय्य"मिति ।"
"अभ्यर्चनादर्हतां मनःप्रसादस्ततः समाधिश्च ।
तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥"
इति तत्त्वार्थभाष्यविवरणे । अत एव सम्यग्दर्शनस्य विस्तराधिगतये निर्देशस्वामित्वसाधनाधिकरणादिनिरूपणप्रक्रमे स्वामिन उपवर्णनं - कस्य सम्यग्दर्शनमिति । एतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेन जीवस्याऽजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा: । उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति । उभयसंयोगस्य विवक्षितत्वात् संयोगविरहिता एते विकल्पा न सन्ति, शेषास्तु जीवस्य जीवस्य १ जीवस्य जीवयोः २ जीवस्य जीवानां ३ जीवस्याऽजीवस्य ४ जीवस्याऽजीवयोः ५ जीवस्याऽजीवानां ६ एते तु सन्तीत्यर्थः । स्वामित्वविवक्षायां मुख्यवृत्त्या तु यद् यत्र समवेतं तत्तस्यैव, व्यवहारेण तु परस्य निमित्तभूतस्यापि तद् व्यपदिश्यते । तत्र निमित्तापेक्षामृते सम्यग्दर्शनपरिणाम आत्मन्येव समवेत इत्यात्मसंयोगेन जीवस्य तदिति स्पष्टमेव । परसंयोगेन तु साधु-प्रतिमादि वस्तु निमित्तीकृत्य श्रद्धानपरिणाम उपजायते इत्येते एक
Page #5
--------------------------------------------------------------------------
________________
फेब्रुआरी-2005
द्विबहुनिमित्तनिबन्धना विकल्पाः सञ्जायन्ते । उभयविवक्षा तु स्पष्टैवेति । अधिकरणविचारणायामप्येवमात्मपरोभयसन्निधानाभिधानं च सूपपद्यते । यदि वा यथायोगं प्रतिमावन्दनपूजनोद्यतस्य सर्वेषामपि व्रतानामाराधनोपपद्यते ।
I
नन्वेतत्तु मयाऽपूर्वमेव श्रूयते यद् व्रतानामप्याराधनं भवति पूजयेति चेत्, सत्यं भवत्येव । शृणु तावत् सावधानीभूय तदुपपत्तिम् । प्रथमं तावज्जिनपूजा-धिकारित्वमविरतसम्यग्दृष्टि देशविरतयोर्द्वयोरपि । तद्विधिश्च दशत्रिक-पञ्चाभिगमादिसत्यापनपूर्वक एव तत्र दश त्रिकाणि नैषेधिक्यादीनि नैषेधिकीत्रिकं १ प्रदक्षिणात्रिकं २ प्रणामत्रिकं ३ पूजात्रिकं ४ अवस्थात्रिकं ५ दिशात्रिकं ६ प्रमार्जनात्रिकं ७ वर्णादित्रिकं ८ मुद्रात्रिकं ९ प्रणिधानत्रिकं १० चेति । अभिगमपञ्चकं च सचित्तवर्जना - ऽचित्ताऽवर्ज-नैकशाटकोत्तरासङ्गकरण - मनएकत्वीकरण - ऽञ्जलिप्रग्रहभेदात् । तत्राद्यां नैषेधिकी जिनगृहद्वारं प्रविशन् करोति गृहारम्भाद्या श्रवस्थानवर्जनरूपाम् । प्रदक्षिणात्रिकं विदधता जिनगेहाशातनादिनिर्धारणादिरूपां सर्वतस्तत्सम्भालनां विधाय द्वितीयां तां विदधाति । भावपूजावसरे च तृतीयाम् । नैषेधिकीकरणतश्च त्रिगुप्तः पञ्चनिग्रहपरो भवति, शब्दादिविषयेषु न मनो विलयति, जिनगृहादितत्तत्कार्यं परमात्मस्वरूपं च विहाय न किमपि चिन्तयति । विकथाचतुष्क-मर्माभ्याख्याना - ऽप्रियाऽनृतादिवचनानि वर्जयति । वस्त्रकायादिशुद्धिं विधाय कण्डूयन- निष्ठीवनशृङ्गारचेष्टादिकं निषेधति । एवञ्च गुप्त्याद्याराधयत एव भावनैषेधिकी, अन्यथा शब्दोच्चारमात्रफला द्रव्यनैषेधिक्येव । तत्र प्रथमं जिनगृहद्वारे मूलगर्भगृहद्वारे चैत्यवन्दनकरणावसरे चेति नैषेधिकीत्रिककरणेन यथायोगं आश्रवद्वारनिषेधः प्रतिज्ञातस्तथा च पञ्चानामपि व्रतानां प्राणातिपात मृषावादा ऽदत्तादान-मैथुनपरिग्रहविरमणरूपाणामाराधनं भवति । भगवद्दिशां विमुच्य शेषदिक्त्रयमात्रस्यापि वर्जनेन षष्ठमपि दिग्विरमणव्रतं सत्यापितम् ।
" वपुश्च वसनं चैव मनो भूमिस्तथैव च ।
पूजोपकरणं न्याय्यं द्रव्यं विधिक्रिया तथा ||१||
5
१. अत एव श्रावकाणामपि द्वैविध्यं दर्शनश्रावक - व्रतश्रावकभेदात् । तत्र व्रतश्रावकस्तु पञ्चमगुणस्थानवर्ती, दर्शन श्रावकस्तु " से णं दंसणसावए भवति अभिगयजीवाजीवे स्वलद्धपुण्णपावे आसवसंवरनिज्जर किरियाहिगरणबंधमोक्खकुसले जाव अयमाउसो ! निथे पावयणे अट्ठे अयं परमठ्ठे सेसे अट्टे ||"
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धान-३१
सप्तानां शुद्धिरेतेषां भाषिता श्रीजिनेश्वरैः । पूजनावसरे प्रासे पालनीया सदा बुधैः ॥२॥"
इति सप्त[विधाया अपि शुद्धेः पूजनाद्धायां पालनीयत्वस्याऽत्यावश्यकत्वेन तदन्तःपातिन्या मनःशुद्ध्या पूर्वप्रतिपादितस्वरूपगुप्तित्रयाराधनाद्यात्मभावनषेधिक्या पूजाभेदपरिपठितकाययोगसारसमन्तभद्र-वचनयोगसारसर्वमङ्गलमनोयोगसारसर्वसिद्धिफलात्मत्रिकापरनामविघ्नोपशामिन्य- भ्युदयसाधनीनिर्वृतिकरणात्मकयथार्थनामफलप्रदानप्रत्यलेन पूजात्रैविध्येन वाऽपध्यान-प्रमादाचरित-हिंस्रप्रदान-पापोपदेशादिपरिहारतोऽनर्थदण्डविरमणाख्यमष्टममपि व्रतमाराधितम् । भावस्तवावसरविहितया तृतीयया नैषेधिक्या सर्वथा सावद्ययोगपरिहारतः सावद्ययोगनिवृत्तिरूपं नवमं सामायिकमपि व्रतमंशतः समाराधितम्,
"सावज्जजोगविरओ तिगुत्तो छसु संजुओ । - उवउत्तो जयमाणो आया सामाइयं होइ ।।" त्ति तल्लक्षणात् । त्रिदिग्निरीक्षणवर्जनेन पूर्वभावितेन दिक्संक्षेपरूपं, द्वितीयतृतीयनैषेधिकीभ्यां पूर्वप्रतिज्ञाता श्रवनिषेधस्य सङ्कोचनेन व्रतसंक्षेपरूपं च दशमं देशावकाशिकाख्यमपि व्रतं संसाधितम् । आहाराऽब्रह्मादीनां परिहारादेकादशस्यापि पौषधव्रतस्यांशिक्याराधना सत्यापितैव । अग्रपूजायां नैवेद्यादिढौकनेन द्वादशमतिथिसंविभागवतमपि समाराधितं भवति, अर्हतां रत्नपात्रकल्पत्वादिति ।
किञ्च सचित्तद्रव्यवर्जनाद्यभिगमपञ्चकस्याप्यत्र जिनगृहादि प्रविशताऽऽराध्यत्वेन सचित्तद्रव्यवर्जनादिना पञ्चमं मनएकत्वीकरणेनाऽष्टममित्यादि व्रतमाराध्यत एव । व्रतातिक्रमादौ प्रायश्चित्तापत्तेरिव नैषेधिक्यादिभङ्गेऽपि प्रायश्चित्तस्योपवर्णितत्वेनापि व्रताराधना सुज्ञेयैव ।
अपि च महानिशीथादिप्रतिपादितजिनायतनद्रव्यस्तवविधायिनो द्वादशस्वर्गगतिः सम्यक्त्व-देशविरत्याराधनां प्रख्यापयति, प्रज्ञापनादिषु सम्यक्त्वदेशविरतिमत उत्कर्षतस्तत्रोपपातश्रवणात् । सर्वविरतिपरिणतेरपि प्रापिकायाः पारगतप्रतिमाया देशविरत्याराधनफलत्वे तु किं वक्तव्यम् ! ।
__भगवता पार्श्वप्रभुणाऽपि संयमावसरोऽवसितो वीतरागावस्थनेमिराजीमतीप्रतिकृतिविलोकनतः । नागकेतु-रङ्गदेव-चङ्गदेवप्रभृतिभिश्च प्रतिमापूजनप्रवणैः
Page #7
--------------------------------------------------------------------------
________________
फेब्रुआरी-2005 कैवल्यलक्ष्मीरप्यवापि ॥ तदेवं मूर्तिपूजाया युक्तिबिन्दुर्निदर्शितः ।
नेमिसूरिप्रसादेन विजयोदयसूरिणा ॥१॥ यदर्जितं मया पुण्यं पूजायुक्तिनिरूपणात् ।
भवताद् भव्यसन्दोहे तेन पूजाऽऽदरो महान् ।।२।।
इति मूर्तिपूजायुक्तिबिन्दुः समाप्त: ॥
आचार्यश्रीविजयोदयसूरिकृता
मूर्तिमन्तव्यमीमांसा ॥ अथ श्रीमूर्तिमन्तव्यमीमांसा ॥
प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा । मूर्तिमन्तव्यमीमांसा कथ्यते भव्यबोधिनी ॥
युक्त्यागमसंसिद्धायामप्यस्यां मूर्तिमन्तव्यमीमांसायामर्वाचीनानामितिहासोपनिषद्वेदिनामाकूतेन तावद् मूर्तिनिषेधविचारोऽनादावपि काले न केनचित् कुत्रचित् कदाचनाऽपि प्रादुष्कृत: । अधुना दरीदृश्यमानसत्ताकोऽपि स न प्रथमं भारते लब्धभूमिः । अपि तु तत्प्रादुर्भावपिता प्रथमपुरुषः क्राइष्टसम्वतः पूर्वं पञ्चदशशतैकसप्ततिवर्षे (१५७१) प्रथमो याहूदीनां पेगम्बरो मोझझ(हसरतमुसा अलेहिसलाम)संज्ञो बभूव । तस्य मूर्तिपूजानिषेधबीजं तु तत्कालीनेतिहासाऽवलोकनत इदभेव सम्भाव्यते ।
तथाहि-पूर्वं तावदयं हसरतमुसा याहुदिकुले मीसरदेशेऽजायत । केनापि कारणेन मातर- पितराभ्यां मञ्जूषायां संस्थाप्य सा मञ्जूषा नाइलनद्यां प्रक्षिता । तां च तत्कालीन-मिसरनृपतिफीरौनपुत्री लब्धवती । तया च राजकुमार्या [स] पुत्रवत् पालयित्वा वर्धितः । तदा च यहुदिन ईजिप्तेऽवसन्, बलादेव तेभ्य ईजिपश्यना इष्टिकानिष्पादनकर्म कारितवन्तः। एकदा ईदृगेव किञ्चित्कारणमवलम्ब्य ईजिपश्यन-यहुदिनावयुद्ध्येताम् । तत्राऽऽगतेन हजरतेन
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान-३१
स्वयं यहुदित्वाद् यहुदिपक्षमादाय हत्वा च ईजिपश्यनं तत्कलेवरं भूमौ निधीचक्रे। प्रकटीभूतं च क्रमशो हत्यादुष्कृतम् । ततः प्रच्छनवृत्त्या नंष्ट्वा कुत्रचिज्जगाम । ततश्चत्वारिंशता वर्षेभूयो मीसरदेशमाजगाम । तत्र तु यहुदिषु स एव बलात्कार आसीत् । ततो यहुदिनो मोचयित्वा एशियामाइनरप्रदेशमानीतवान् । स च प्रदेशो दुग्धोत्पादकप्रचुरतृणवत्त्वान्मधूत्पादकप्रचुरखजूरादिद्रव्यत्वाच्च दुग्धमधुसरित्पतिरितिख्यातिमानासीत् । अतः स्थितमिदं यहुदिनो गोपा इव पशुचारका आसन् । ते चैतद्देशीयगोपवत् प्रचुरतृणादिमत्प्रदेशे एवाऽस्थुर्न तु तेषां स्थायिग्रामगृहाणि बभूवुः । ततश्च सिद्धमिदं यद् वनचारिणां तेषां मन्दिरमूर्तिभिः सह कुतः सम्बन्धः ? । मूर्त्यर्थं तु स्थितिमत्स्थानं पूजाप्रबन्धश्चोपयुज्यते । तच्च तदानीं यहुदिनामसाम्प्रतमेवाऽऽसीत् । हजरतोऽपि यं तं मारयित्वा नैवाऽत्र (नैकत्र ?) स्थिति लेभे । अतस्तस्याऽपि न मूर्तिसम्बन्धो युज्यते । इदमेव कारणमासाद्य मूर्तिपूजा निषिषेधेति सम्भाव्यते । तेन च बाइबलपूर्वार्ध(ओल्डटेस्टेमेन्ट)प्रथमपुस्तकपञ्चकं प्राणायि । तदनुयायिनो याहूदिनः खुदार्पितानि तानि पुस्तकानीति मन्वते ।
अस्तु यत्किञ्चित् । तेषु द्वितीयपुस्तकीयविंशतितमप्रकरणस्य चतुर्थो नियमो मूर्तिपूजां निषेधयति । स चाऽयम् - "त्वया त्वदर्थं स्वर्गीयस्य स्थलीयस्य जलीयस्य वा कस्यचिद्वस्तुन आकृतिर्न विधेया ।" इदमेव वचो मूर्तिपूजानिषेधमूलम् । पुस्तकं चैतद् यूरोपीयाः क्रिश्चियना अप्यभ्युपपद्यन्ते । ते चाऽऽङ्ग्ला बाइबलस्य द्वौ भागौ-ओल्डटेस्टेमेन्टसंज्ञं पूर्वार्धं न्युटेस्टेमेन्ट संज्ञं चोत्तरार्धं स्वसिद्धान्ततया स्वीकुर्वन्ति । याहूदिनस्तु पूर्वार्धमेव । एतन्मूर्तिपूजानिषेधवचोमहिम्नाऽरबिनां कुमारिका अपि क्रीडनपाञ्चालिकाजतुषत्रपुषविरहिण्यो बभूवुः ।
ततः पञ्चदशशत्यां वर्षाणां गतायां क्रिश्चियनपेगम्बर-जीससक्राइस्ट(इसुख्रिस्त)मतं प्रादुर्बभूव । क्राइष्टस्यापि प्रायः हजरतमुसा-सदृश्येव स्थितिरासीत् । बाल्य एव तदीयपितरौ गोपयित्वा मिसरप्रदेशं नीतवन्तौ, तादृश्यां च स्थितौ तस्यापि मूर्तिपूजासम्बन्धो न युज्यते । तदीयदशस्वादेशेषु द्वितीय आदेश:- "त्वं मूर्त्यग्रे कदापि न नंस्यसि" इति मूर्तिनमनं निषेधयति । तदनु षष्ठशतकप्रारम्भे म्लेक्षपेगम्बरनबीमतं प्रचलितम् । तदानीं तत्पूर्वं वा
Page #9
--------------------------------------------------------------------------
________________
फेब्रुआरी-2005
तान्त्रिकाणां प्राबल्यमासीत् । ते च तान्त्रिका यं पुरुषं पशुं वा स्ववशमानेतुमभिलषितवन्तस्तदीयामश्ममयीं मृण्मयीं वा मूर्ति निष्पाद्य तां प्रति प्रतिनियतक्रियां चक्रुः, तन्मूर्त्तिसंस्कारः तत्तत्पुरुषं पशुं वा [प्रति] जायते इति ते मन्यन्ते । इममेव हेतुमवलम्ब्य नबीपेगम्बरेण मूर्तिखण्डनकारीति तत्कालीनेतिहासतत्त्वालोकनेन सम्भाव्यते । तदीयश्च कुरानशरीफग्रन्थः “परमेश्वरप्रतिकृतितया न त्वं किञ्चिदपि स्थापयिष्यसि " इत्यादिवचनसन्दर्भेण मूर्तिनिषेधं द्रढयति ।
म्लेक्षा मुसा - ईसा नामानावपि पेगम्बरतया मन्यन्ते । तत्र मुसासंज्ञं तु कलिमुल्लतया स्वीकुर्वन्ति । इति तयोरपि विचारा: कुरानशरीफे आगताः सम्भाव्यन्ते । इति स्थितमेतत् मुसा - ईसा महम्मद इति त्रितय्यप्येकरूपैव । अथ तन्मतं महम्मदपेगम्बरसमये तु मूर्तिनिषेधकमित्येव न अपि तु मूर्त्तिभञ्जकमिति ख्यातिमद् बभूव । अथैकादशशताब्दीप्रारम्भे 'मेहमुदशा गजनी' इत्यनेन तु भारतीयमूर्तिभङ्गायाऽऽप्राणोपरमं प्रयतितम् । अनेनाऽन्यैर्लेक्षनरेशैश्च सुखमानान् (सुखिन:) भारतीयजनान् दुःखरूपकटुफलान्यास्वादितानि । शान्तिप्रवाहनिमग्नप्रजाशान्तिध्वंसाय तनुमनोवित्तपूर्वकं कैश्चित्प्रयतितम् । यद्यप्याङ्ग्लसम्वतः पञ्चदशशताब्दीपूर्वं प्रथमं मूर्त्तिनिषेधप्रयासो याहूदीपेगम्बरेण मूसा संज्ञेन प्रारब्धस्तथाप्याङ्ग्लसम्वतः पूर्वं त्रिशतसप्तविंशतिवर्षं ( ३२७) यावदत्र न क्वापि काचन मूर्त्यवगणना प्रावर्त्तत । यतो भारतमागतैरलेकझांडरसहवर्त्तिभि- ग्रीकैर्भारतीयाभिर्मूर्त्तिभिः सह निजदेशीयमूर्त्तय औपमीयन्तेति प्रमाणान्युपलभ्यन्ते । तैरनेकदेवसादृश्यं स्वमूर्तीनामाख्यातम् । अत: सिद्धमेतत्तदानीं भारते ग्रीसदेशे च मूर्तिपूजाऽऽसीत् ।
किञ्च तदानीं बुद्धमतमपि प्रसृतमासीत् । बौद्ध-वेदान्तिनोश्च परस्परं धर्ममहाविवादे सत्यपि न केनापि कदाचित्कस्यचिन्मूत्तिखण्डनं कृतम् । शङ्कराचार्यस्य बौद्धैः सह परमरिपुत्वे सत्यपि न तद्वचःसु मूर्त्तिखण्डनं दृश्यते; अपि तु स्थापनम् । दर्शयति चैतन्मेक्समूलरोऽपि 'सिस्टम ओफ इन्डीयन' नाम्नः पुस्तकस्य षष्ठेऽङ्के - "मूर्ती किं गुप्ततत्त्वमस्तीत्यपश्यतामपि सोपयोगिनी" -ति शङ्कराचार्यमतम् । अयं शङ्कराचार्य आङ्ग्लसम्वति सप्तशताष्टाशीति (७८८) -तमे आसीदिति मेक्समोलराभिप्रायः ।" त्रयोदशशतैकोनपञ्चाशत्तमे(१३४९)
Page #10
--------------------------------------------------------------------------
________________
अनुसन्धान-३१
आसीदिति शाहजहां(१६२७-५८)समयोत्पन्नमोहसनफानीमतं ।" कृष्णलालगोविन्दरामप्रभृयस्तु क्राइस्टसम्वतः पूर्वं चतुर्विंशतिशतसप्तनवति(२४९७)तमे आसीदित्याख्यान्ति । आङ्ग्लास्त्विमां पृथ्वी षट्सहस्रवर्षप्रायोत्पन्नां मन्यन्ते ।
अपि च चीनदेशात् फाहीयानसंग-युहु एन सांगप्रभृतयो यात्रिका भारतदर्शनार्थं क्राइस्टसम्वत्पञ्चशताब्दीतः(५००) सप्तशताब्दी (७००) यावदागतास्तैः मध्यएशीया-भारतोत्तरभागवर्णनमकारि । तेषां च बुद्धमतानुयायित्वाद् ब्राह्मणांस्ते धर्मविरोधिनाम्ना भाषितवन्तः । तेषामपि ग्रन्थेषु प्रभूतप्राचीनतममन्दिरमूर्तीनां वर्णनं दृश्यते । इतीतोऽप्यवसीयते इदं- यदुत मूर्त्यवगणना भारते क्वचिदन्यत्र प्रदेशे वा कदाचित्कथञ्चिदपि नाभून्न केनचिदपि विहिता । अथेयमिस्लामिप्रखरप्रतापसमये इतः कालात् चतुःशताब्दीपूर्व षोडशशताब्द्यां लब्धजन्मभिः सिक्ख-शतनामि-कबीर-दादु-लुम्पाकैर्मूर्त्यवगणना प्रारब्धा । तद्वीजं तु म्लेक्षराज्यसाम्राज्यं तत्प्रतापस्तदनुयायित्वं वा । तदानीमेवाऽऽङ्ग्लभूमौ यूरोपेऽपि प्रोटेस्टन्टप्रादुर्भावः ।" प्रोटेस्टन्टाग्रणी
टिनल्युथरः सिक्खाग्रणीगुरुनानकश्च समकालोत्पत्तिको प्रायः । मार्टीनल्युथरसमयः त्र्यशीत्यधिकचतुर्दशशताब्दीत: षड्विंशत्यधिकपञ्चदशशताब्दी यावत् (१४८३-१५२६) । नानकसमयश्च सप्तषष्ट्यधिकचतुर्दशशताब्दीत: अष्टात्रिंशदधिकपञ्चदशशताब्दी यावत् (१४६७-१५३८) । अतः स्थितमेतद यन्मूर्तिस्तत्पूजा चानादिसंसिद्धैव । किञ्च सर्वप्रथमं प्ररूपितोऽपि मूसासंज्ञेन याहूदिपेगम्बरेण मूर्तिविधानप्रतिषेधो मूर्तिदर्शनपूर्वकमेव । न तत्र सन्देहबीजम् । यतो मूर्तिनिषेधकमूसासमयेऽपि लघ्व्यो लघीयस्यो वा मूर्तय आसन्निति व्यक्तमाख्यातं लेमनवीये । यांस्ते टेरेफीमेतिसंज्ञयाऽऽचख्युस्ते रचितवन्तः । ओल्डटेस्टेमेन्टे तु मूर्तिपूजाप्राचीनताप्रमाणानि भूयांस्येव लभ्यन्ते ।
अथ जनसंख्यायां विचार्यमाणायां मूर्तिपूजकसंख्यैव सर्वत्राऽधिका । सा चैवम्-अधुना बुद्धधर्मस्तावद्दरीदृश्यमानजनैकतृतीयांशे विस्तृतोऽस्ति । तस्य च कनफ्युसनिस्ट-टेओइस्ट-शेन्टोइस्टप्रभृतयः सर्वा अपि शाखा मूर्तिपूजामभ्युपपन्नाः । द्वितीयं क्राइस्टमतं, तस्यापि तिसृषु शाखासु प्रोटेस्टन्टरोमनकेथोलिक-ग्रीकाख्यास्वन्तिमे द्वे शाखे मूर्तिपूजामुररीकृतवत्यौ, संख्यायां च द्वितृतीयांशादप्यधिके । तत्र रोमनकेथोलिका निजनिजेषु मन्दिरेषु
Page #11
--------------------------------------------------------------------------
________________
फेब्रुआरी-2005
वरजीनमेरी - तत्पुत्रबालईसुप्रभृतिमूर्त्तीिः स्थापयित्वा धूपदीपादिभिर्यजन्ति । ग्रीकास्तु स्वकीयेषु मन्दिरेषु गृहेषु चोक्तमूर्त्तीरन्या अपि प्राचीनतमज्युपीटरज्युनो-मीनर्वा - विनस न्यूसप्रभृतिमूर्त्तीिः स्थापयन्ति यजन्ति च । प्रोटेस्टन्टाश्च यद्यपि मूर्तिमवगणयन्ति तथापि क्रोसं कल्पयन्ति, अस्त्वेतत् । किञ्च प्रोटेस्टन्टा म्लेक्षाश्च हझकरणाय गच्छन्ति तत्र प्रस्तरं चुम्बन्ति च । शिक्खेष्वपि शिक्खसिंघाख्ये द्वे शाखे । तत्र सिंघेभ्यो नवघ्नाः शिक्खा:- सर्वेऽपि मूर्ति पूजयन्ति, सिंघाश्चाऽवगणयन्ति । जैनेष्वपि श्वेताम्बर - दिगम्बरा मूर्ति पूजयन्ति । केवलं पिष्टलवणनिदर्शनसंख्या हुण्डकास्तेरापन्थिनश्च तां तिरस्कुर्वन्तोऽपि गुरुवन्दनावसरे भूमिमासनादिकं वा गुरुचरणतया तथाविधवस्त्रवेषं पूज्यपदवीख्यापकतया कल्पयन्ति गुरुवस्त्रासनादेराशातनां पूज्यतया वर्जयन्ति, स्वगुरुप्रतिकृति च गुरुतयाऽङ्गीकुर्वन्ति । पारसिका अपि भानुं बृहद्भानुं च पूजयन्ति । अन्या अपि एनीमीस्टानाम्नी प्रजा असुमतोऽसुमन्मूर्तीश्च पूजयन्ति ।
संख्या
मूर्तिपूजकानां बौद्धाः रोमनकेथोलिका:
ग्रीका:
भारतीयाः (हिन्दु)
जैना:
एनीमीस्टा: सर्वसंख्या
मूर्त्तिनिषेधकानां
याहूदिन: प्रोटेस्टन्टाः
पारसिकाः
प्लेक्षां (मोस्लेम)
दुण्ढका: सिंघाः
अष्टपञ्चाशत्कोट्य: (५८०००००००) एकोनचत्वारिंशत्कोटय: ( ३९००००००० )
एका कोटी (१०००००००) एकविंशतिकोटयः सप्तषष्टिर्लक्षा : ( २१६७०००००) सप्तविंशतिर्लक्षाः (२७०००००)
पञ्चदशकोट्य द्वयशीतिर्लक्षाः (१५८२०००००) एकमब्जं पञ्चत्रिंशत्कोट्यः षट्सप्ततिर्लक्षाः
(१३५७६०००००)
संख्या
एकाकोटीद्वाविंशतिर्लक्षा : (१२२०००००) सप्तदशकोट्यः षोडशलक्षाः (१७१६०००००)
एकं लक्षम् (१०००००) द्वाविंशतिकोय्योऽष्टादशलक्षाः (२२१८०००००)
पिष्टलवणनिदर्शन संख्याः । लक्षत्रयं ( ३०००००)
11
Page #12
--------------------------------------------------------------------------
________________ 12 अनुसन्धान-३१ आर्यसमाजिनः ब्रह्मप्रार्थनासमाजिनः सर्वसंख्या साढ़े द्विलक्षे (250000) सार्धानि पञ्चसहस्राणि (5500) चत्वारिंशत्कोटयो द्विषष्टिलक्षाः पञ्चपञ्चाशत्सहस्राः पञ्चशतानि (406255500) तदेवं मूर्तिमन्तव्यमीमांसेयं मयोदिता / नेमिसूरिप्रसादेन, विजयोदयसूरिणा // 1 // यदर्जितं मया पुण्यं, मूर्तिमन्तव्यवर्णनात् / तेन पुण्येन भव्यानां, मूर्तिर्मान्या भवत्वलम् // 2 // इति // मूर्तिमन्तव्यमीमांसा सम्पूर्णा ॥श्रीः।। -x