SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी-2005 काकेन भक्षितम् ? । (तथैवेयमपि परमात्मपूजा(ऽपीति) किं नाङ्गीकरोषि ? ।') न च तस्या न तच्छुद्धिहेतुता, यथावदात्मस्वरूपप्रत्यायकतयाऽ ऽर्द्रकुमारादिवत्तदुपलब्धेः ॥१॥ __ प्रसिद्धमप्यागमे कल्याणकादितीर्थभूदर्शनस्पर्शनसामर्थ्यतः सम्यक्त्वदादापादनम् । यदाह आचाराङ्ग-भावनाऽध्ययननियुक्तिदर्शनभावनायां "निक्खमणनाणनिव्वाणे"त्यादि ॥२॥ वर्णितमपि तत्रभवद्भिस्तत्र तत्र स्थाने सम्यक्त्वशुद्धिहेतुत्वं पूजायाः __"पूयाए कायवहो पडिकुट्ठो सो उ किं तु जिणपूया । सम्मत्तसुद्धिहेउत्ति भावणीया उ निरवज्जा ॥" इत्यादिवचोभिः ॥३॥ सम्यक्त्वशुद्धिहेतुत्वादेव द्रव्यस्तवस्य संसारप्रतनुकृत्त्वमुख़ुष्यते "संसारपयणुकरणे दव्वत्थए कूवदिटुंतो" इत्यादौ ॥४॥ यथावस्थितदेवस्वरूपज्ञापकत्वात् प्रतिमाया न्याय्यैव तत्पूजने सम्यक्त्वशुद्धिहेतुता ॥५॥ श्रावकाणां निवासास्पदनिरूपणे यज्जिनभवनालङ्कृतं स्थानमिष्यते तदपि सम्यक्त्वशुद्धिहेतुत्वाङ्गीकारेणैव ॥६॥ प्रश्नव्याकरणाने 'मुनीनामपि यच्चैत्यवैयावृत्त्यं करणीयत्वेनोपदिष्टं तदपि सम्यक्त्वनैर्मल्याधायकत्वेन ॥७॥ सम्यक्त्वलिङ्गत्वेन वर्णितमपि देववैयावृत्त्यं प्रतिमापूजनद्वारैव सिद्धिमुपयाति ॥८॥ सम्यक्त्वविनयभेदेषूपदर्शितं चैत्यभक्तिबहुमानाद्यपि चैत्यपूजनस्तवनकर्तृणामेवोपपद्यते ॥९॥ आर्द्रकुमार-शय्यम्भवसूर्यादीनां प्रतिमादर्शनत एव सम्यक्त्वावाप्तिरुपवर्णिता ॥१०॥ प्रतिमाकारमत्स्यदर्शनादनेकेषां मत्स्यानामपि सम्यक्त्वोत्पत्तिद्वीपसागरप्रज्ञप्त्यादौ श्रूयते ॥११॥ १. मूलप्रतावेव एवं पाठान्तरं दृश्यते । २. अनगाराणामपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229294
Book TitleMurtipooja Prativadak Be Laghu Rachano
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size361 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy