SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-३१ सप्तानां शुद्धिरेतेषां भाषिता श्रीजिनेश्वरैः । पूजनावसरे प्रासे पालनीया सदा बुधैः ॥२॥" इति सप्त[विधाया अपि शुद्धेः पूजनाद्धायां पालनीयत्वस्याऽत्यावश्यकत्वेन तदन्तःपातिन्या मनःशुद्ध्या पूर्वप्रतिपादितस्वरूपगुप्तित्रयाराधनाद्यात्मभावनषेधिक्या पूजाभेदपरिपठितकाययोगसारसमन्तभद्र-वचनयोगसारसर्वमङ्गलमनोयोगसारसर्वसिद्धिफलात्मत्रिकापरनामविघ्नोपशामिन्य- भ्युदयसाधनीनिर्वृतिकरणात्मकयथार्थनामफलप्रदानप्रत्यलेन पूजात्रैविध्येन वाऽपध्यान-प्रमादाचरित-हिंस्रप्रदान-पापोपदेशादिपरिहारतोऽनर्थदण्डविरमणाख्यमष्टममपि व्रतमाराधितम् । भावस्तवावसरविहितया तृतीयया नैषेधिक्या सर्वथा सावद्ययोगपरिहारतः सावद्ययोगनिवृत्तिरूपं नवमं सामायिकमपि व्रतमंशतः समाराधितम्, "सावज्जजोगविरओ तिगुत्तो छसु संजुओ । - उवउत्तो जयमाणो आया सामाइयं होइ ।।" त्ति तल्लक्षणात् । त्रिदिग्निरीक्षणवर्जनेन पूर्वभावितेन दिक्संक्षेपरूपं, द्वितीयतृतीयनैषेधिकीभ्यां पूर्वप्रतिज्ञाता श्रवनिषेधस्य सङ्कोचनेन व्रतसंक्षेपरूपं च दशमं देशावकाशिकाख्यमपि व्रतं संसाधितम् । आहाराऽब्रह्मादीनां परिहारादेकादशस्यापि पौषधव्रतस्यांशिक्याराधना सत्यापितैव । अग्रपूजायां नैवेद्यादिढौकनेन द्वादशमतिथिसंविभागवतमपि समाराधितं भवति, अर्हतां रत्नपात्रकल्पत्वादिति । किञ्च सचित्तद्रव्यवर्जनाद्यभिगमपञ्चकस्याप्यत्र जिनगृहादि प्रविशताऽऽराध्यत्वेन सचित्तद्रव्यवर्जनादिना पञ्चमं मनएकत्वीकरणेनाऽष्टममित्यादि व्रतमाराध्यत एव । व्रतातिक्रमादौ प्रायश्चित्तापत्तेरिव नैषेधिक्यादिभङ्गेऽपि प्रायश्चित्तस्योपवर्णितत्वेनापि व्रताराधना सुज्ञेयैव । अपि च महानिशीथादिप्रतिपादितजिनायतनद्रव्यस्तवविधायिनो द्वादशस्वर्गगतिः सम्यक्त्व-देशविरत्याराधनां प्रख्यापयति, प्रज्ञापनादिषु सम्यक्त्वदेशविरतिमत उत्कर्षतस्तत्रोपपातश्रवणात् । सर्वविरतिपरिणतेरपि प्रापिकायाः पारगतप्रतिमाया देशविरत्याराधनफलत्वे तु किं वक्तव्यम् ! । __भगवता पार्श्वप्रभुणाऽपि संयमावसरोऽवसितो वीतरागावस्थनेमिराजीमतीप्रतिकृतिविलोकनतः । नागकेतु-रङ्गदेव-चङ्गदेवप्रभृतिभिश्च प्रतिमापूजनप्रवणैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229294
Book TitleMurtipooja Prativadak Be Laghu Rachano
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size361 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy