Book Title: Murtipooja Prativadak Be Laghu Rachano Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ फेब्रुआरी-2005 तान्त्रिकाणां प्राबल्यमासीत् । ते च तान्त्रिका यं पुरुषं पशुं वा स्ववशमानेतुमभिलषितवन्तस्तदीयामश्ममयीं मृण्मयीं वा मूर्ति निष्पाद्य तां प्रति प्रतिनियतक्रियां चक्रुः, तन्मूर्त्तिसंस्कारः तत्तत्पुरुषं पशुं वा [प्रति] जायते इति ते मन्यन्ते । इममेव हेतुमवलम्ब्य नबीपेगम्बरेण मूर्तिखण्डनकारीति तत्कालीनेतिहासतत्त्वालोकनेन सम्भाव्यते । तदीयश्च कुरानशरीफग्रन्थः “परमेश्वरप्रतिकृतितया न त्वं किञ्चिदपि स्थापयिष्यसि " इत्यादिवचनसन्दर्भेण मूर्तिनिषेधं द्रढयति । म्लेक्षा मुसा - ईसा नामानावपि पेगम्बरतया मन्यन्ते । तत्र मुसासंज्ञं तु कलिमुल्लतया स्वीकुर्वन्ति । इति तयोरपि विचारा: कुरानशरीफे आगताः सम्भाव्यन्ते । इति स्थितमेतत् मुसा - ईसा महम्मद इति त्रितय्यप्येकरूपैव । अथ तन्मतं महम्मदपेगम्बरसमये तु मूर्तिनिषेधकमित्येव न अपि तु मूर्त्तिभञ्जकमिति ख्यातिमद् बभूव । अथैकादशशताब्दीप्रारम्भे 'मेहमुदशा गजनी' इत्यनेन तु भारतीयमूर्तिभङ्गायाऽऽप्राणोपरमं प्रयतितम् । अनेनाऽन्यैर्लेक्षनरेशैश्च सुखमानान् (सुखिन:) भारतीयजनान् दुःखरूपकटुफलान्यास्वादितानि । शान्तिप्रवाहनिमग्नप्रजाशान्तिध्वंसाय तनुमनोवित्तपूर्वकं कैश्चित्प्रयतितम् । यद्यप्याङ्ग्लसम्वतः पञ्चदशशताब्दीपूर्वं प्रथमं मूर्त्तिनिषेधप्रयासो याहूदीपेगम्बरेण मूसा संज्ञेन प्रारब्धस्तथाप्याङ्ग्लसम्वतः पूर्वं त्रिशतसप्तविंशतिवर्षं ( ३२७) यावदत्र न क्वापि काचन मूर्त्यवगणना प्रावर्त्तत । यतो भारतमागतैरलेकझांडरसहवर्त्तिभि- ग्रीकैर्भारतीयाभिर्मूर्त्तिभिः सह निजदेशीयमूर्त्तय औपमीयन्तेति प्रमाणान्युपलभ्यन्ते । तैरनेकदेवसादृश्यं स्वमूर्तीनामाख्यातम् । अत: सिद्धमेतत्तदानीं भारते ग्रीसदेशे च मूर्तिपूजाऽऽसीत् । किञ्च तदानीं बुद्धमतमपि प्रसृतमासीत् । बौद्ध-वेदान्तिनोश्च परस्परं धर्ममहाविवादे सत्यपि न केनापि कदाचित्कस्यचिन्मूत्तिखण्डनं कृतम् । शङ्कराचार्यस्य बौद्धैः सह परमरिपुत्वे सत्यपि न तद्वचःसु मूर्त्तिखण्डनं दृश्यते; अपि तु स्थापनम् । दर्शयति चैतन्मेक्समूलरोऽपि 'सिस्टम ओफ इन्डीयन' नाम्नः पुस्तकस्य षष्ठेऽङ्के - "मूर्ती किं गुप्ततत्त्वमस्तीत्यपश्यतामपि सोपयोगिनी" -ति शङ्कराचार्यमतम् । अयं शङ्कराचार्य आङ्ग्लसम्वति सप्तशताष्टाशीति (७८८) -तमे आसीदिति मेक्समोलराभिप्रायः ।" त्रयोदशशतैकोनपञ्चाशत्तमे(१३४९) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12