Book Title: Meghdoot Pratham Padyasyabhinava Trayortha Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 7
________________ June-2005 33 कश्चित्कान्तेतिकाव्यस्य, विचक्षणचमत्कृते । अर्थत्रयमिदं चक्रे, गणि: समयसुन्दरः ॥१॥ ॥ इति प्रथमोऽर्थः 11 अथ श्रीखरतरस्वच्छगच्छनभोङ्गणदिनकराणां श्रीजिनचन्द्रसूरिसूरीश्वराणां वर्णनेन प्रकारान्तरेण द्वितीयमर्थमाहकश्चित्कान्ताविरहगुरुणा स्वाधिकार प्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु । स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥ कश्चित्कान्तेत्यादि । हे इजनकतनय ! त्वं वसति रामगिर्याश्रमेषु इन इति सम्बन्धः । कोऽर्थः ? । इः इकारस्तेनोपलक्षितो जनः जिनः । तथा 'कं शिरो जलमाख्यातं' इति वररुचि (प. ७) वचनप्रामाण्यात् । कं-जलं, तद्यो - ज्यादाधाराधेययोरभेदोपचारात् प्राणयोगात्प्राणः प्राणिन इतिवत्, समुद्रस्तस्य तनयःपुत्रः कतनयश्चन्द्रः, तत: जिनश्चासौ कतनयश्च जिनकतनयः अथवा जिनपूर्वक: कतनयो जिनकतनयः जिनचन्द्रः तस्य सम्बोधनं हे जिनचन्द्र ! श्रीमत् खरतरगच्छाधीश्वर ! । वसति: रात्रिस्तद्वद्रामः श्यामो गिरिर्वसति रामगिरिरञ्जनगिरिस्तस्मै आ-ईषत् श्रमो गमनाय खेदो येषां ते वसतिरामगिर्या श्रमाः । जङ्घाचारणविद्याचारणलब्धिमन्त: साधवः तेषु इन:-सूर्य इवाचारः(चर) तेषु मुख्यो भवेत्यर्थः । किविशिष्टं(ष्टः) त्वं ? चित्-अवधारणे कः । 'क:-सुखकारी काकुवनिविशेषः' इत्यादि वाग्भटालङ्कारव्याख्यानात् सुखकारी । हे कान्ताविरहगुरुण ! कोऽर्थः ? 'कै गै इति शब्दे' इति धातुपाठवचनात् कायति-शब्दं करोति इति अर्थात् कं-शास्त्रं वाच्यवाचकभावसम्बन्धेन वाचकत्वात्तस्य । ततः कस्य-शास्त्रस्य अन्ते-पर्यन्ते अटति-गच्छतीति कान्ताः एवंविधो विरह इति शब्दो यस्य स कान्ताविरहः, श्रीहरिभद्रसूरिविरहाङ्कत्वात्तस्य । ततः स चासौ गुरुश्च कान्ताविरहगुरुः तद्वत् 'णः प्रकटे निश्चले प्रस्तुते ज्ञानबन्धयोः' इति सुधाकलश (प. २२) वचनात् । ण:-ज्ञानं यस्य स कान्ताविरहगुरुणः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11