Book Title: Meghdoot Pratham Padyasyabhinava Trayortha
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________ June-2005 37 तेषु वा ई:-श्रीः तस्याः जनः जननं यस्मात्स चक्रेजनः, चकबान्धववत् सूर्यस्य / सति हि सूर्ये चक्रवाकपक्षिणां परमानन्दः समुत्पद्यते / तत्सम्बोधने चक्रेजन ! पुनः हे कतनय ! क:-यमस्तनयो यस्य स कतनयस्तत्सम्वोधने हे कतनय !! हे अस्नान ! न विद्यते स्नानं तैलककोटिकादिरूपं यस्मिन् सः अस्नानस्तत्सम्बोधने हे अस्नान ! ! रविवारे हि स्नानं तापकारि स्यात् / यदुक्तं.. 'आदित्यादिषु वारेषु, ताप: कान्तिप॑तिर्धनं / दारिद्र्यं दुर्भगत्वं च कामाप्ति स्नानतः क्रमात् / / ' किंविधः? हे उदकेषु पुण्य ! उत्-ऊर्ध्वमन्ति-गच्छन्ति चारेण चरन्तीति उदका:- ग्रहा: तेषु 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे' इति हैमानेकार्थ (प. 375) वचनात्, पुण्य:- सुन्दरस्तेषु मुख्यत्यर्थः / पुनः हे स्निग्धच्छाय ! स्निग्धा स्नेहवती छायानिजभार्या यस्य स तत्सम्बोधने हे स्निग्धच्छाय! पुनः किम्भूतेषु उदकेषु ? अतरुषु अनानां प्राणिनां रु:-रक्षणं येभ्यस्ते उदकास्तेषु उदकेषु / हे वसतिल ! वसति-रात्रि लुनातीति वसतिल ! / किम्भूतेषु उदकेषु ? गिर्याश्रमेषु गिरिःपर्वतोऽर्थान्मेरुः तस्मादा-सामस्त्येन सर्वतः श्राम्यतीति गिर्याश्रमेषु / [तृतीयोऽर्थः संपूर्णः ] *** कश्चित्कान्तेति काव्यस्य विचक्षणचमत्कृते / अर्थत्रयमिदं चक्रे, गणिः समयसुन्दरः // 1 // श्री // *** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 9 10 11