Book Title: Meghdoot Pratham Padyasyabhinava Trayortha Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 9
________________ June-2005 35 पुण्योदकेषु पुण्याय तीर्थकरचैत्यवन्दनादिरूपाय उत्-उर्ध्वं अकंते - गच्छन्ति इति पुण्योदकास्तेषु पुण्योदकेषु । पुन: किं विशिष्टेषु साधुषु ? अतरुषु 'त: प्रेते निःफले शान्ते' इति विश्वशम्भु (प. ६०) वचनप्रामाण्यात् । न विद्यते तेभ्यः प्रेतेभ्य: 'रु: सूर्ये रक्षणेपि च । भये शब्दे च' इति सुधाकलश (प. ३७-३८) वचनप्रामाण्यात् । रु:- भयं येषां ते अतरवस्तेषु अतरुषु । अथवा तरुषु इति कोर्थ: ? वृक्षोपमेषु अनेकगुणगणपक्षिकुलाश्रयभूतत्वात् । अथवा तरुषु अर्थात् कल्पवृक्षेषु निजसेवाहेवाकिनां मनोवाञ्छितदानात् । तथा हे स्निग्ध ! हे मित्र ! तद्वद्धितकारित्वात् । कश्चित् कान्तेति काव्यस्य विचक्षणचमत्कृते । अर्थत्रयमिदं चक्रे गणिः समयसुन्दरः ॥ [द्वितीयोऽर्थः संपूर्णः ] *** [अथ तृतीयोऽर्थः] अथ श्रीसूर्यदेववर्णनन तृतीयमर्थमाह-अत्र कोपि जनो जगदुद्योतकारक जगच्चक्षुर्भूतं परमोपकारविधायक श्रीसूर्यं अस्तमयं दृष्ट्वा प्राहकश्चित्कान्ताविरहगुरुणा स्वाधिकार प्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु, स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥१॥ कश्चित्कान्तेत्यादि । हे इन ! हे सूर्य ! त्वं 'अस्त: क्षिप्ते पश्चिमाद्रौ' इति हैमानेकार्थ (प. १६०) वचनात्, अस्तं पश्चिमाद्रिं अस्ताचलं इति यावत्, मा अम--मा गच्छ मा अस्तमय सदा प्रकाशवान् भवेत्यर्थः । आशीर्वचनमेतत् इत्यन्वयः। किंविशिष्टः त्वं ? 'हि स्फुटार्थनिश्चयहेतुषु पादपूरणविशेषयोरपि' इति अव्ययार्थवत्तौ उक्तत्वात् । हि-स्फुट कः-प्रकाशस्तद्योगात कः प्रकाशवानित्यर्थः । पुनः किंविशिष्टः त्वं ? चिनोति-अभिमतमर्थं निजसेवाभिधायिनामिति चित् । अथवा चित् अवधारणे । हे कान्ताविरह ! कान्त:मनोहरो विशिष्टफलदानात् उच्चो अविर्मेषो मेषराशिर्यस्य स कान्ताविः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11