Book Title: Meghdoot Pratham Padyasyabhinava Trayortha
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 34 अनुसन्धान ३२ - सकलशास्त्रप्रवीणत्वात् । अथवा तद्वत् गुरु: -गरिष्टो णः - ज्ञानं यस्य स कान्ताविरहगुरुणस्तत्सम्बोधनं हे कान्ताविरहगुरुण ! पुनः हे अस्वाधिकारप्रमत्तश ! स्वं द्रव्यं परिग्रहं ( ह: ) इति यावत् तदभावोऽस्वं परिग्रहाभाव:, स अधीयते यस्मिन्निति अस्वाधिः त्यक्तपरिग्रहत्वेन निर्ग्रन्थत्वात् । साभिप्रायं चैतत् विशेषणं परिग्रहत्यजनेन उद्धृतक्रियत्वात् । तथा रलयोरैक्यात् कलानां द्विसप्ततिसंख्यानां पुरुषसम्बन्धिनीनां चतुः षष्टिसंख्याकानां महिलासम्बन्धिनीनां वा समाहारः कालं, तत्प्राति- पूरयतीति कालप्रः- धर्मः । यतो हि सर्वा अपि कला धर्मादेव प्राप्यन्ते । अथवा कस्य-सुखस्य आरं प्राप्तिं प्रातीति कालप्रः, तं मध्नातीति कालप्रमथ्, पापं तदेव 'तकारः कथितचौरे' इति वररुचि ( प. २३) वचनात् त: - तस्करस्तत्र 'श: सूर्ये शोभने शीते' (विश्वशम्भु प. १०८ ) इत्युक्तत्वात् श इव-सूर्य इव यः स कालप्रमत्तशः । ततः अस्वाधिश्चासौ कालप्रमत्तशश्च अस्वाधिकालप्रमत्तशस्तसम्बोधनं हे अस्वाधिकालप्रमत्तश ! तथा हे अये ! अपगतः इ:- कामो यस्मात् सो अस्तित्सम्बोधने हे अये ! अदेत: स्यमोर्लुगिति सिलुक् । हे न अस्तं गमितमहिम ! अस्तं गमिता महिमा - महत्त्वं यस्य सः अस्तंगमितमहिमः एवंविधो न सर्वदैव जाग्रन्महिमत्वात् । अथवा अस्तंगमितो 'मो मन्त्रे मन्दिरे' ( विश्वशम्भु प. ९४ ) इत्युक्तत्वात् म: - मन्त्रं सूर्यादिमन्त्रो यत्र यस्य वा स अस्तंगमितमहिम: । अथवा अस्तंगमिता 'मा वंत: स्त्री रमार्च्चयो:' ( विश्वशम्भु. प. ९५ ) इतिवचनात् । मह्यां पृथिव्यां मा रया - शोभा अर्चा पूजा यस्य सः अस्तंगमितमहिमः । एवंविधो न । तथा हे अवर्षभोग्य ! अवनं अव:षड्जीवनिकायरक्षणं तं ऋषन्ति जानन्तीति अवर्षा: साधवः तेषां 'भोगस्तु राज्ये वेश्याभृतौ सुखे धनेऽहिकायफणयोः पालनाभ्यवहारयोः' इति हैमानेकार्थ (प. ४१-४२) वचनात् भोग:- पालनं सारणावारणादिकं तत्र साधुः । तत्र साधी इति ये । अवर्षभोग्यः तस्य सम्बोधने हे अवर्षभोग्य ! किंविशिष्टः (ष्ट: ?) त्वं ? भर्तुः छाया-तीर्थकर प्रतिबिम्बं 'तित्थयरसमो सूरी' इत्याद्युक्तत्वात् । पुनः किंविशिष्टः त्वं ? यक्ष: इ: - लक्ष्मीस्तया युक्तानि अक्षाणि - इन्द्रियाणि यस्य सः । 'इवर्णादेरस्वे स्वरे यवरलं' इति यत्वे यक्षः रम्येन्द्रियः । पुनः हे चक्र ! 'चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने' इति श्रीमानेकार्थत्वात् (? विश्वशम्भु प. ३१) । चेनचारुदर्शनेन क्रामतीति चक्रस्तत्सम्बोधने हे चक्र ! अथवा चक्रचिह्नोपेतत्वात् चक्र: तत्सम्बोधने हे चक्र ! । तथा हे अस्नान हे स्नानवर्जित ! किंविधेषु साधुषु ? Jain Education International - For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11