Book Title: Meghdoot Pratham Padyasyabhinava Trayortha Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 6
________________ 32 अनुसन्धान ३२ ऊ:-रक्षणं तदुपलक्षितो 'गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि' इति विश्वशम्भु. (प. २५) वचनात् । ग: शब्दः ऊगो दयोपदेशस्तत्र साधुः, तत्र साधौ इति ये ऊग्यस्तत्सम्बोधनं हे ऊग्य ! हे भर्तुः ! इनः-स्वामिनः । स्वामिन् । किविधस्त्वं? यक्षः ई-लक्ष्मी अक्ष्णोति-व्याप्नोतीति यक्षः । पुनः हे चक्रेजनकतनय ! चक्रेणचकरत्नेन ई-शोभां जनयतीति चक्रेजनकोऽर्थाद्भरतनामा चक्रवर्ती स तनयः-पुत्रो यस्य स चक्रेजनकतनयः तत्सम्बोधनं हे चक्रेजनकतनय ! । हे अस्नानपुण्य ! अस्नाने स्नानाभावेन । 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे ।' इति हैमानेकार्थ (प. ३७५) वचनात् । पुण्य:-सुन्दरः अस्मानपुण्यः । 'अनध्ययन- विद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगा, पान्तु युष्मान् जिनेश्वराः ।१। इत्युक्तत्वात् । तत्सम्बोधने हे अस्त्रानपुण्य ! । हे स्निग्धच्छाय ! स्निग्धा असै(रू?)क्षा कोमला इति यावत्, 'छाया पंक्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्ती शोभायां च तमस्यपि' इति हैमानेकार्थ (प. ३६३) वचनात् । छाया प्रतिमा कान्तिर्वा यस्य स स्निग्धच्छायः, तस्सम्बुद्धौ हे स्निग्धच्छाय ! । किंविधेषु उदकेषु ? अतरुषु अतन्ति सततं गच्छन्ति, अचि, अता:-प्राणिनस्तेषां । 'रु शब्दे रक्षणेऽपि च भये च' इतिवचनात् सौधाकलशात् (प. ३७) रु:-भयेभ्यस्तानि तेषु अतरुषु । किंविशिष्टं मां ? असतिं 'पूजायां तिः' इति विश्वशम्भु (प. ६१) वचनात् । ति:-पूजा तया सह वर्तते यः स सतिः, न सतिरसतिस्तं पूजादिरहितं दरिद्रवराकमित्यर्थः । अत्र 'इवर्णादेरस्वे स्वरे यवरलं' इति मतान्तरमाश्रित्य पञ्चमीव्याख्याने अतरुषु अग्रे असतिं इत्यत्र उकारात्परे वकारे कृते लोकादिति च कृते अतरुषुवसति इति रूपसिद्धिः । हे गिरिराम ! वाण्यां मनोहर ! किं भूतेषु उदकेषु ? आश्रमेषु आ-सामस्त्येन श्रमः खेदो येभ्यस्तानि तेषु । नन्वत्र चतुस्त्रिंशदतिशयसंग्राहकातिशयचतुष्टयमध्ये क: केन पदेनोच्यते सच्यते वा इत्यभिधीयते-चित्कान्तेति पदेन ज्ञानातिशयः ।। स चापायापगमातिशयमन्तरेण न संभवति अतोऽनेनापायापगमातिशयोऽप्याक्षिसः ।२। तथा ऊग्येति गिरिरामेति वा पदेन वचनातिशय: ।३। भर्तुः इनेति पदेन पूजातिशयः ।४। इति चतुष्टयं ज्ञेयम् । श्रीऋषभदेववर्णनेन प्रथमोऽर्थः सम्पूर्णः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11