Book Title: Meghdoot Pratham Padyasyabhinava Trayortha Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 5
________________ June-2005 31 युयमाग्निषु' इत्यनेकार्थवाक्यप्रामाण्यात् 'विश्वशम्भु. पत्र २१' । क-ब्रह्मा युगादिस्थितिहेतुत्वात् । अथवा पंक्तिरथ-न्यायेन ब्रह्मनाभिभूरित्यर्थः । हे चित्कान्त ! चिद्-ज्ञानं अर्थात्केवलज्ञानं तेन कान्तः मनोहर: चित्कान्तस्तत्संबुद्धौ हे चित्कान्त !, अतएव हे अविर ! 'अविशब्दो रवी मेषे पर्वतेऽपि निगद्यते ।' इत्यनेकार्थध्वनिमञ्जरीवचनात् अविः-सूर्यस्तद्वद्राजते यः स अविरः । अविःपर्वतोऽर्थान्मेरुस्तद्वत् स्वर्णवर्णत्वान्निष्प्रकम्पत्वादुच्चैस्तरदेहत्वाद्वा राजते यः सोप्यविर: तत्सम्बोधनं हेऽविर ! । पुन: कंविधं मां ? हि यस्मात् हगुरुणा उदकेषु गमितं । कोऽर्थः ? 'हं हर्षे चैव हिंसायां' इथि विश्वशम्भु. (प. ११५) वचनात् । हं-हिंसा तदुपदेष्टा तदुपलक्षितो वा गुरु: हगुरुः, अथवा हःक्रोधस्तेनोपलक्षितो मध्यपदलोपिसमासे गुरुर्हगुरुः । अत्र ह:-क्रोधवाची । यथाह वररुचि: 'ह कोधवाचीति' (प. ४४) क्रोधश्चात्रोपलक्षणं । तेन क्रोधाद्या चत्वारोऽपि कषाया गृहीतव्याः । ततस्तेन हगुरुणा । उदकेषु इति, उत्प्रबलानि-उत्कटानि । 'अकं-दुःखाघयोः' इति श्रीहैमानेकार्थ(२-१)वचनात् । अकानि-दुःखानि पापानि वा उदकानि नानाविधत्वात्तेषां बहुत्वं तेषु गमितं प्रापितमित्यर्थः । कुगुरुर्हि हिंसोपदेशदानादिना प्राणिनो दुःखेषु पातयतीति । पुनः हे स्वाधिकारप्र! स्वस्य आत्मनोऽधिकारः स्वाधिकारस्तीर्थकरपदरूपः, तं प्राति-पूरयति इति स्वाधिकारप्रः, निजभक्तिमतां सतां स्वतुल्यकारकत्वात् तत्सम्बोधने हे स्वाधिकारप्र! किंविधेन कुगुरुणा ? मत्तशापा मत्तः-दृप्सः ततः शापं. आक्रोशं आचष्टे इति, शापयतीति णिजि तल्लुकि च शाप्, ततः मत्तश्चासौ शाप् च मत्तशाप् तेन मत्तशापा । अथवा अस्वाधिकालप्रं अत्त शापा इति पदत्रयविश्लेषः कर्तव्यः, तदा अयमर्थः । किंविधं मां ? अस्वाधिकालत्रं न स्वः अस्वः शत्रुभूत आधिर्मानसी व्यथा अस्वाधिस्तेन काल:-मरणं अस्वाधिकालोऽसमाधिमरणं बालमरणमिति यावत् तं प्रैति प्रकर्षेण पाति--प्राप्नोति, डे प्रत्यये अस्वाधिकालप्रस्तं । हे अत्त ! हे मातः । तद्वद्वत्सलत्वात् । अत्र श्लेषत्वाद्विसर्गनाशो न दोषाय । यदुक्तं रुद्रटालङ्कारटीकायां नमिसाधुना 'विसर्जनीयाभावाभावयोर्न विशेषो, यथा'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथा । द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजा यथा । १ ।' इति । किविधेन कुगुरुणा? शापा पूर्ववत् । किंविधं मां ? इनाकामेन अस्तं-क्षिप्तं । हे अ ! 'अ: स्यादर्हति सिद्धे च' इति वचनात् । हे अर्हत् ! पुनः हे ऊग्य ! 'ऊ: पालने रक्षणे च' इति अनेकार्थतिलक. (प. ८-९) वचनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11