Book Title: Matruka Sholakmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ December 2003 - चर्कर्तु भर्ता वरमुक्तिलक्ष्म्या श्चञ्चच्छुभं भक्तजनस्य नित्यम् । चन्दद्गुणो यो नमिनाथसार्वश्चन्द्रोपमक्षान्तिरसाम्बुधिस्सः ||२४|| छित्रच्छलो नेमिजिनेश्वरस्सः, छिन्द्यात्तमां कर्ममलानि सद्यः । छेकाललोकाः स्तवनं यदीयं, छिन्दन्त एनो रचयन्ति दिष्ट्या ॥२५॥ जयतु पार्श्वजिनस्स विधीयते, जनतया नतया च यदर्च्चनम् | जलदकान्तिसमानशरीररुग्, जगति दीप्तयशा जयवानहो ! ||२६|| झषध्वजस्थाममही प्रवज्रो, झरां नयत्वाऽऽश्वऽशुभानि मेऽद्य । झट्यन्तर एनांसि च यत्प्रसत्त्या, झगित्य "थो वीरजिनेश्वरस्सः ||२७|| Jain Education International इति श्रीमातृका श्लोकमालायां चतुर्विंशतिजिनवर्णनो नाम प्रथमः परिच्छेदः ॥१॥ २५. चन्दंत आह्लादयन्तो दीप्यमाना गुणा यस्य स तथा । २६. हानिम् । २७. झट्यन्ते विनश्यन्ते । २८. शीघ्रम् । १०९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15