________________
December 2003
-
चर्कर्तु भर्ता वरमुक्तिलक्ष्म्या श्चञ्चच्छुभं भक्तजनस्य नित्यम् । चन्दद्गुणो यो नमिनाथसार्वश्चन्द्रोपमक्षान्तिरसाम्बुधिस्सः ||२४||
छित्रच्छलो नेमिजिनेश्वरस्सः, छिन्द्यात्तमां कर्ममलानि सद्यः । छेकाललोकाः स्तवनं यदीयं,
छिन्दन्त एनो रचयन्ति दिष्ट्या ॥२५॥
जयतु पार्श्वजिनस्स विधीयते, जनतया नतया च यदर्च्चनम् | जलदकान्तिसमानशरीररुग्, जगति दीप्तयशा जयवानहो ! ||२६|| झषध्वजस्थाममही प्रवज्रो,
झरां नयत्वाऽऽश्वऽशुभानि मेऽद्य । झट्यन्तर एनांसि च यत्प्रसत्त्या, झगित्य "थो वीरजिनेश्वरस्सः ||२७||
Jain Education International
इति श्रीमातृका श्लोकमालायां चतुर्विंशतिजिनवर्णनो नाम प्रथमः परिच्छेदः ॥१॥
२५. चन्दंत आह्लादयन्तो दीप्यमाना गुणा यस्य स तथा ।
२६. हानिम् ।
२७. झट्यन्ते विनश्यन्ते ।
२८. शीघ्रम् ।
१०९
For Private & Personal Use Only
www.jainelibrary.org