________________
१०८
अनुसंधान - २६
औदार्यगाम्भीर्यगुणैर्गरिष्ठः, औन्नत्ययुक्तो विमलः स सार्वः । औद्धत्यहृद् रातु सुखं त्रिलोक्या औचित्यमर्चा धरतीह यस्य ॥१६॥ अंतकनाशक चञ्चरचेता, अंचति" ना तव यश्चरणौ वै । अंकत आशु सुखानि गतागा, अंयुगऽनन्त जगद्धितकारिन् ॥ १७ ॥ अः सम" कामहतौ विहतैना अः स्थितमानस १९ नाशय दुःखम् । अस्तै कुवादिमतप्रतिमौजा अस्तुलभायुतस तीर्थपधर्मः ॥ १८ ॥ कनककान्तिसमानशरीररुक्, कलुषमेष निरस्यतु मामकम् । करणवारणवारणसद्धरिः र: कलगुणः किल शान्तिजिनेश्वरः ॥ १९ ॥ खनतु पापखनिं करुणानिधिः, खलकलाम्बुजनाशनचन्द्रमाः खरतरा अथ कुन्थुजिनेश्वरः खचरनिर्ज्जरकिन्नरसंस्तुतः ||२०|| गगनमणिरिवेदं ज्ञानमाविष्करोति, गणधरवरराजो वस्तुजातं हि यस्य । गज इव तरुवृन्दं नाशयैनो मदीयं, गतिजितकरिराजोऽ राऽऽप्स स त्वं प्रसद्य ॥२१॥
घोरचोररिपुभीतिविनाशी, घट्टितामृतरस: शुभदायी । घट्टयाश्वनिशमिष्टसमृद्धि,
घर्षिताऽकुशल मल्लिजिन त्वम् ॥२२॥ ङाक्षरवक्रकुकर्मविनाशिन्,
ङाचयमाशु विधेहि विधातः । ङागतः सुव्रततीर्थप नित्यं ङामदरोगसुखे तरहारिन् २४ ॥२३॥
१५. पूजयति । १७. परमब्रह्मसहित ।
१६. प्राप्नोति ।
१८. शिवतुल्यः ।
१९. आसि आश्चर्ये स्थितं मानसं यस्य स तथा तत्सम्बोधने अः स्थितमानस ।
२०. क्षिप्त ।
२१. असः सूर्यस्य तुला यस्याः सा अस्तुला सा चासौ भा च अस्तुलभा, तया युतो यः स तथा तत्सम्बोधने अस्तुलभायुत ।
२२. ङाचयं लक्ष्मीनिचयम् । २३. सिद्धिगत । २४. निन्दामदरोगदुःखनाशक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org