Book Title: Matruka Sholakmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
December
-
2003
रामो नृपेन्द्रः प्रणताङ्गभाजां, रम्यां रमां रातु मनः प्रसन्नः । राजव्रजैस्सेवित एधितदर्धी,
रत्नाकरः सद्गुणरत्नराज्याः ||१८||
यमो हि दिक्पालवरो विभाति, यथार्हदण्डं प्रददान एषः । यथा पतिः पूर्वदिशः सुरेन्द्रो, यशोयुगीशश्च तथा ह्यपाच्याः ॥१७॥
वनमिदं प्रतिभाति महत्तरं, वरफलालियुतैस्तरुभिः शुभम् । विजितनन्दननन्दनसत्प्रभं,
विविधपक्षिमधुव्रतसेवितम् ||२०||
३५. कल्याणसहितैः । ३६. कामुकस्त्री ।
Jain Education International
लुलितमिलितपृथ्वीपाल भालाभिसेव्यो, ललितचतुरराज्या रञ्जितः स्पष्टवाग्भिः । लसितसितगुणौधो लक्ष्मणाख्यः कुमारो, लयनयचययुक्तस्तुष्टिपुष्ट्यै समस्तु ||१९||
षण्ढत्ववल्लीपरशुः सुधर्मः, षड्वर्गसंसर्गवियुक्त एषः । षण्डालिका“सङ्गमदोषवादी,
षिड्गेतरै राजति पुम्भिरर्यः ॥ २२॥
शमयतु जनतायाः पातकानां प्रतानं, शमरसऋतियुक्तैर्योगिभिः सेवनीयः । शमनशमनकामोत्तुङ्गमातङ्गसिंहः, शिशिरकिरणचञ्चच्छुक्लिमा नष्टष्टः ॥ २१ ॥
११३
समुद्र एष प्रतिभाति नित्यं, सरित्स्फुरन्नीरसुसङ्गमाढ्यः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15