Book Title: Matruka Sholakmala
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ ११२ अनुसंधान-२६ नलिनमोहनशोभनलोचनो, नरवरार्चितपश्चिमदिक्पतिः । नयतु भद्रशतान्यमिताग्न्यऽसौ, नयमयोर्णवमन्दिरऋद्धिदः ॥११॥ परमपुण्यपवित्रविचित्ररुक, पटुगुणः प्रवणः करुणाविधौ । पविपतिस्त्रिदशाननिशं नतान्, पर्दैमसौ प्रददातु पुरन्दरः ॥१२॥ फटपदिष्ठवराङ्गवराङ्गरुक, फणिपतिर्धरणी धरतात्तराम् । फणितकिल्विषकिल्बिषकल्मष:२७, फलितपेशलकोमललोचन:२८ ॥१३॥ बहुलपुष्कलमङ्गलमण्डली, बलवतां बलतां२९ परमेश्वरः । बत सतां यतिनां नमतां सदा, बहुकलाकलितः कुशलाशयः ॥१४॥ भगवतोऽभ्युपपत्तिवशा"च्छुभं, भवतु पुण्यवतः परमात्मनः । भवत२ एधित विश्वलसद्यशो, भयभरोज्झित भूमिपते प्रभो ॥१५।। मुनिपतिर्नयवानयतादसौ, मतशुभानि२ शुभानि जनस्य वै । मनुजपूजितसच्चरणाम्बुजो, मथितमन्मथदुस्सहदर्परुक् ॥१६॥ २६. त्राणम् । २७. नाशितरोगाऽपराधपातकः । २८. फलितानि विस्तीर्णानि अक्षीणि द्विसहस्रत्वात्, पेशलानि मनोहराणि कोमलानि मृदूनि लोचनानि यस्य स तथा । २९. दत्ताम् । ३०. हर्षेण ! ३१. प्रसादात् । ३२. तव । ३३. सम्मतभद्राणि । ३४. भव्यानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15