Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ श्रीमलय सुन्दरीचरित्रस्योपोद्घातः विदितमेतत् विदितवेद्यानां विदुषां यत् प्राथमिकशिष्याणां नोपकारततिमातनुते ऋते धर्मकथानुयोगमयान् दृष्टान्तान् अपरोऽनुयोगनिचयः, धर्मकथानुयोगमयेषु दृष्टान्तेषु दर्शितसम्यक्त्वा दिगुणगणमाहात्म्येषु श्रवणपथमुपागतेषु यथायथं हेयोपादेययोर्हानोपादानयोः सुतरां प्रवर्त्तन्ते सुधीराः सन्त उल्लसितासाधारणोत्साहाः प्राथमिकाः, फलेग्रहिश्चात एव धर्मकथानुयोगः, हेयोपादेयहानोपादाने च स्थिरावाधितोत्साहकृते, तथाविध उत्साहथ न यथावस्थितपदार्थज्ञानस्याविचलां धृतिमन्तरा, सम्यक्त्वं विरतिरकलङ्कः आगमयाथार्थ्य बोधोऽपि तदैव पोस्फुरीति ततो युक्त एवादितः समधिगतज्ञानधारणोपदेशः प्रवृत्तधर्मजिज्ञासेभ्योऽन्तेवासिम्यः, भवति चैवं प्रवृत्ते शैक्षके तत्त्वाभ्यासरसिके कस्मिंश्चिदपि ज्ञानोत्कर्षः, न च भविष्यति हस्तिस्नानोदाहरणेन मौढ्यतादवस्थ्यं, विचार्यापीदं न भवति दृष्टान्तमृते साध्यावगतिः सत्फलेति विमृश्य लोकानुसार्यपि श्लोक एकः “ विधत्ते यद्विधिस्तत्स्यान्न स्याद् हृदयचिन्तितम् । एवमेवोत्सुकं चित्तमुपायश्चिन्तयेद्वहून् ॥ १ ॥ " इति द्वितीयप्रस्तावस्थः स्वपरिदृढप्रणीतः कामवस्थां प्रापयिताऽभूत् मलयसुन्दर्या इति लोकोत्तरज्ञानावधारणधृतिदायय दुःखेऽप्यचिन्तितेऽविषये समापतितेऽकस्मात् न छुदर्कभाग्या आयत्यनुत्तमोत्तमतासाधारणभाजनानि पराभवमाप्य चलन्त्यनन्यसा - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 200