Book Title: Malaysundari Charitram
Author(s): Jaytilaksuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
म. सु.
१३ ॥
Jain Education I
का पुरी ? ॥ ५९ ॥ नरेणाभाणि भो भद्र !, शृणु त्वं पृष्टमात्मनः । श्रियेदं स्वः पुरस्पर्द्धि नगरं कुशवर्द्धनम् ॥ ६० ॥ अत्रासीत् भूपतिः सूरः, सूरनामा गुणाग्रणीः । जयविजयचन्द्राख्यौ, तस्यावां तनयावुभौ ॥ ६१ ॥ जयचन्द्रो मम भ्राता, ज्येष्ठो राज्य उपाविशत् । पितर्युपरते ऽहन्त्वहङ्कारान्निरगां पुरात् ॥ ६२ ॥ सर्वत्राहं भ्रमन पुर्या, चन्द्रावत्यां गतोऽन्यदा । तदुद्याने मया दृष्टो, विद्यासिद्धो नरो वरः ॥ ६३ ॥ किन्त्वतीसाररोगेण, स तथा व्यथितो भृशम् यथा न चलितुं नैव, वक्तुं शक्तो मनागपि ॥ ६४ ॥ ततः करुणया सैष, प्रत्यकारि मया तथा । यथाऽल्पैर्वासरैर्जज्ञे, सुखेन पटुविग्रहः ॥ ६५ ॥ तत्पृष्टेन मयाऽऽख्याते, नामस्थानादिके निजे । बिद्ये तेन वितीर्णे द्वे, प्रसन्नमनसामम ॥ ६६ ॥ स्तम्भकर्त्री वश्यकर्त्री, पाठसिद्धे उभे अपि । रसतुम्बं तथा चैकं दत्त्वाऽहं तेन जल्पितः ॥ ६७ ॥ दुःखेनैष मयाऽग्राहि, स्वसिद्धो दुर्लभो रसः । अस्यांशस्पर्शमात्रेण, लोहं भवति काञ्चनम् ॥ ६८ ॥ रक्षितव्यं प्रयत्नेन, ततोऽयं सर्वदा त्वया । ययौ श्रीपर्वते सिद्धो, दत्त्वा शिक्षां ममेति सः ॥ ६९ ॥ परिभ्रमन् प्रविष्टोऽहं, चन्द्रावत्यां पुनः पुरि । लोभाकरलोभनन्दिश्रेष्ठिनोरापणे गतः ॥ ७० ॥ दक्षाभ्यां प्रतिपत्त्याऽहं ताभ्यामावर्जितस्तथा । विश्वस्तेन यथा तत्र, तत्तुम्बं न्यासितं मया ॥ ७१ ॥ स्थित्वाऽऽक्षिप्त: पुरीलक्ष्म्या, तत्राहं कति वासरान् । मातुरुत्कठितः स्वीयपुरं
1
For Private & Personal Use Only
म. का.
॥३॥
v.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 200